________________
जइ - जीयकप्पो नानुज्ञापयति, तत्र चेत्वरे अल्पकालावस्थानेऽप्यवग्रहाननुज्ञापने लघुको मासः तुशब्दात् कुटमुखादिष्वदत्तेषु गृहीतेषु । दवादविदिन्ने पुण' त्ति । द्रव्ये प्रतिविशिष्टे अदत्ते गृहीते । पुनःशब्दः पूर्वाभिहितप्रायश्चित्ताद्विशेषणे। जिनैः तीर्थकरैरुपधिनिष्पन्नं प्रायश्चित्तं भणितं तच्चेदम्-मुखपोतिकादिके जघन्ये पञ्चकम् । चोलपट्टादिके मध्यमे लघुमासः । वर्षाकल्पादावुत्कृष्टे चतुर्लघवः ।।८२।।। अथ अविदिण्ण' त्ति । अस्य पदस्य व्याख्यामाह
लढुं न निवेएई परिभुंजइ वा निवेइअमदिण्णं ।
तत्थोवहिनिष्फन्नं अणवट्ठप्पो व आएसा ।।८३।। व्याख्या-कोऽपि साधुर्भिक्षादिविनिर्गत उपकरणादिजातं लद्धं लब्ध्वा न निवेदयति गुरूणां न कथयति । अथवा परिभुङ्क्ते अनिवेदितम्, अथवा निवेदितं परं गुरुभिर्नानुज्ञातं ततो अदत्तमेव परिभुङ्क्ते । एवमदत्तादानं भवति । तत्रोपधिनिष्पन्नं प्रायश्चित्तं तच्च प्रागुक्तमेव । अथवा आदेशात् सूत्रादेशात् अनिवेदिताऽदत्तवस्त्रायुपकरणग्राहकः साधुरनवस्थाप्यो भवति । एवं प्रातिहारिकं वस्त्राद्युपकरणं तेषां गृहिणां यदि न प्रत्यर्पयति, शय्यातरसत्कं वा किमप्यदत्तं परिभुङ्क्ते, तत्राऽप्यदत्ते उपधिनिष्पन्नं प्रायश्चित्तम् । वर्षाकाले च भगवता नानुज्ञातमुपधिग्रहणम् । अतस्तत्र तद् ग्रहणं कुर्वाणस्य तीर्थंकराऽदत्तं भवति, तत्र चतुर्गुरु । तथा परक्षेत्रे यद्यचित्तं द्रव्यमुपकरणरूपं गृह्णाति तदा तस्योपधिनिष्पन्नं प्रायश्चित्तम् । अथ सचित्तं शिष्यादिरूपं गृह्णाति तदा चतुर्गुरुकं यदि वा मिश्रं सोपधिकं शिष्यादिरूपं गृह्णाति तदा संयोगप्रायश्चित्तं भवति । अचित्ते उपधिनिष्पन्नं सचित्ते चतुर्गुरुकमित्यर्थः । तथा साधर्मिका लिङ्ग-प्रवचनाभ्यां त्रि(द्वि)धा भवन्ति । तेषामप्यदत्तसचित्तवस्तुग्रहणे चतुर्गुरुकम् । अचित्तवस्तुग्रहणे पुनरुपधिनिष्पन्नम् । अन्यधार्मिकसत्कादत्तादानेऽप्येतदेव प्रायश्चित्तम् । यत् साधर्मिकादत्तादाने कुलस्तैन्येऽप्येतदेव कालतपोगुरुकं ज्ञेयम् । गणस्तैन्ये च तपोगुरु काललघु । सङ्घस्तैन्ये तु कालगुरु तपोलघु । आदेशेन पुनः सर्वत्राऽनवस्थाप्यम् । कारणैः पुनरदत्तग्रहणेऽपि शुद्धः । यदुक्तम्पत्तं वा उच्छेदे गिहि-खुड्डगमादिगं तु वुग्गाहे । निद्धम्मखुड्डगमखुड्डगं व जयउ त्ति एमेव' ।।
(नि०भा० ३४९) सूत्रार्थोभयव्युच्छेदे गृहिणां क्षुल्लकं बालम् आदिशब्दादबालमपि साधर्मिकाऽन्यधार्मिकाणां वा पात्रं सूत्रार्थतदुभयग्रहणधारणक्षम व्युद्ग्राहयेत् विपरीतं ग्राहयेत्, सूत्रार्थोभयव्युच्छेदेशिशुमितरं वा योग्यं सन्तमपहरतीत्यर्थः। निर्द्धर्माणः पार्श्वस्थाः तेषां सत्कं क्षुल्लकमक्षुल्लकं वा । एवमेव यथा गृहस्थानां तथा व्युद्ग्राहयेत् संयमयोगेषु यततामयमित्यालम्बनेन पार्श्वस्थानां शिष्यं संयमार्थमपहरतीत्यर्थः । ननु यत् सूत्रार्थोभयव्युच्छेदे गृहस्थादिक्षुल्लकाद्यपहरणं तद्युक्तं यत् पुनः पार्श्वस्थशिष्यापहरणं तत्कथं न स्तैन्यम् ? उच्यते