________________
जइ - जीयकप्पो सेसु उ तमणुण्णायं अणणुण्णायगहणे विसुद्धो उ । किं तेणं असंजमपंकेखुत्तं तु कलुते' ।। तेषु पार्श्वस्थेषु तं शिष्यमनुज्ञातं पूर्वं गृह्णन्ति । अननुज्ञातग्रहणेऽपि विविधं सर्वप्रकारेण शुद्धो विशुद्धः अनोत्तरार्द्धन हेतुमाह-अपि चसुहसीलतेणगहीए भवपल्लिं तेण जगडिअमणाहे । जो कुणइ कूविअत्तं सो वन्नं कुणइ तित्थस्स' ।।
(नि०भा० ३५१) एवमनया दिशा अदत्तविषया कल्पिकासेवा प्रकल्पादवसेया । इत्यभिहितं तृतीयमहाव्रतातिचारप्रायश्चित्तम् ।।८३ ।। अथ चतुर्थमहाव्रतातिचारप्रायश्चित्तमाह
पडिबद्धसिज्ज दवे भावे दबंमि पिठवंसाई ।
पासवणठाणरूवे सद्दे भावे लहुग दवे ।।८४ ।। व्याख्या-इह साधूनां दुरपोहमोहव्यपोहपरायणानामपि कदाचित्कर्मवशेन मोहोदयो भवेत् । स च सनिमित्तोऽनिमित्तो वा स्यात् । तत्र गीतादिविषयशब्दश्रवणेन स्त्रीरूपालिङ्गनादिदर्शनन पूर्वक्रीडितस्मरणेन च यो मोहोदयो भवति स सनिमित्तः । यस्तु केवलकर्मोदयेनाऽऽहारेण शरीरोपचयेन वा स्यात् सोऽनिमित्तो बाह्यनिमित्तानपेक्षत्वात्। विषयशब्दश्रवणादीनि च मोहोदयनिमित्तानि प्रतिबद्धशय्यादौ भवेयुः । अतस्तत्र न स्थातव्यम् । तत्रावस्थाने च प्रायश्चित्तं तच्चात्र गाथाद्वयेन प्रतिबद्धशय्यास्वरूपप्ररूपणपूर्वकं प्रतिपाद्यते, यथा-प्रतिबद्धा युक्ता संश्लिष्टेत्यर्थः । शय्या वसतिः । सा च प्रतिबद्धा द्विधा-द्रव्ये भावे च । तत्र द्रव्ये पृष्ठिवंशादि । पृष्ठिवंशो वलधरणं येन काष्ठेन तिर्यक्संस्थापितेन वला ध्रियन्ते तेन प्रतिबद्धा । एकशिखरा लोकगृहैः सहेत्यर्थः । आदिशब्दादपरेण वा केनापि देशेन प्रतिबद्धा । एषा द्रव्यप्रतिबद्धा वसतिरवगन्तव्या । भावप्रतिबद्धा पुनश्चतुर्द्धाप्रस्रवणप्रतिबद्धा, स्थानप्रतिबद्धा, रूपप्रतिबद्धा, शब्दप्रतिबद्धा च । तत्र प्रस्रवणम्, प्रस्रवन्ति कायिकां कुर्वन्त्यस्मिन्नित्यधिकरणाऽनटि प्रस्रवणं कायिकाभूमिस्तेन प्रतिबद्धा । स्थानं यत्र स्त्रियस्तिष्ठन्ति तेन प्रतिबद्धा । यत्र वसतिस्थितैः स्त्रीरूपं दृश्यते सा रूपप्रतिबद्धा । यत्र वसतिस्थितैः स्त्रीणां भाषाभूषणरहस्यशब्दाः श्रूयन्ते सा शब्दप्रतिबद्धा । अत्र द्रव्यभावपदाभ्यां चतुर्भङ्गी स्यात् । तद्यथा-द्रव्यतः प्रतिबद्धा भावतोऽपि प्रतिबद्धा । द्रव्यतः प्रतिबद्धा न भावतः । भावतः प्रतिबद्धा न द्रव्यतः । न द्रव्यतो न भावतः । अत्र चतुर्थभङ्गः शुद्धो द्विघाऽप्यप्रतिबद्धायां वसताववस्थाने दोषाभावात् । दबे' त्ति । द्रव्यतः प्रतिबद्धा न भावत इत्येवंविधद्वितीयभङ्गे या वसतिः स्यात् तत्रावस्थाने चतुर्लघुकाः प्रायश्चित्तम् । आज्ञानवस्थामिथ्यात्वविराधनाश्च भवन्ति । इमे चाऽन्ये दोषाः साधूनां संशब्देन विबुद्धा असंयताः पानीयहारिका–पशुपाल-कौटुम्बिक-पथिक-लोहकार