________________
जइ - जीयकप्पो यान्त्रिक- मत्स्यबन्धकादयो लोकाः तेषु तेषु नानाप्रकारपापव्यापारेषु प्रवर्त्तन्ते । अथाऽधिकरणभयाद्यदि साधवः तूष्णीकास्तिष्ठन्ति तदा सूत्रार्थहान्यादयो दोषा भवन्ति । तस्माद् द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यम् । अथ द्रव्यभावाऽप्रतिबद्धवसत्यलाभे द्रव्यप्रतिबद्धायामपि वसतौ साधवः स्थितास्तदा शब्दे यतनां कुर्वन्ति । यथाअसंयता न जाग्रति ।।८४ ।। अथ भावतः प्रतिबद्धा न द्रव्यत इति तृतीयभङ्गे या वसतिर्भवति तस्या भेदकथनपुरस्सरं प्रायश्चित्तमाह
भावपडिबद्धि पासवणमाइपयचउगि भंगसोलसगं ।
पनरसपएसु चउगुरु दोसा आणाइ सविसेसा ।।८५।। व्याख्या-भावप्रतिबद्धायां वसतौ, मकारस्यालाक्षणिकत्वात् प्रस्रवणादिपदचतुष्केन भङ्गषोडशकं भवति । तद्यथा- प्रस्रवणप्रतिबद्धा, स्थानप्रतिबद्धा, रूपप्रतिबद्धा, शब्दप्रतिबद्धा एष प्रथमो भङ्गः । प्रस्रवणप्रतिबद्धा, स्थानप्रतिवद्धा, रूपप्रतिबद्धा, न शब्दप्रतिबद्धा अयं द्वितीयः । एवं चारणिकाक्रमेण षोडशभङ्गाः कर्त्तव्याः। तत्राऽऽद्येषु पञ्चदशभङ्गकेषु पञ्चदशभङ्गभावप्रतिबद्धवसतिष्वित्यर्थः । तिष्ठतां साधूनां चतुर्गुरु प्रायश्चित्तं भवति । आदेशेन वा प्रथमभङ्गे चत्वारश्चतुर्गुरुकाः । एवं यत्र भङ्गे यावन्ति पदानि विरुद्धानि तत्र तावन्ति चतुर्गुरूणि भवन्ति । षोडशो भङ्गः शुद्धः । तथा आज्ञादयो दोषाः सविशेषा द्रव्यप्रतिबद्धवसतिसकाशात् भावप्रतिबद्धवसतौ सविशेषतरा भवन्तीत्यर्थः । तथाहि-यत्र साधूनामसंयतीनां च एका कायिकाभूमिः सा प्रस्रवणप्रतिबद्धा । तत्रेमे दोषाः-साधुः स्त्रियं दृष्ट्वा क्षुभ्यति, स्त्री वा साधुं दृष्ट्वा क्षुभ्यति । अन्योऽन्यं वा क्षुभ्यतः । ततो यदि स्त्री साधौ क्षुभ्यति तां च यदि प्रतिसेवते ततो व्रतभङ्गः । अथ नेच्छति तदोड्डाहं करोति । एवमुभयथापि दोषः । अथ साधुः स्त्रियां क्षुभ्यति ततः सा स्त्री सेच्छाऽनिच्छा वा स्यात् । यद्यनिच्छा ततो उड्डाहं करोति । अथ सेच्छा ततो व्रतभङ्ग एव । कायिकाभूमौ च स्त्रीप्रविष्टा पश्चात्साधुरपि प्रविष्टोऽन्येन केनापि दृष्टः ततोऽनाचारशङ्का । ततो वसत्यादेर्युच्छेदं करोति, प्रद्विष्टो वा ग्रहणकर्षणव्यवहारादि कुर्यात् । यत्र स्त्रीणां संयतानां च एकं स्थानं तत्रेमे दोषाः । दुष्प्रावृतं छन्नमङ्गमूर्वादि दृष्ट्वा भुक्तभोगस्य साधोः स्मृतिकरणं भवति । तस्य वा साधोः सागारिकं दृष्ट्वा स्त्री क्षुभ्यति शङ्कते वा एष साधुः सागारिकं दर्शयति किं मां प्रार्थयति । ब्रह्मचर्यस्य चाऽगुप्तिः स्यात् । परस्परं च लज्जानाशः, अभीक्ष्णदर्शनन वा प्रीतिवृद्धिः । लोक उत्पासर्वचनेन ब्रवीति साधु तपोवनवासः, राजादि निवारयति-मा एतेषां मध्ये कोपि प्रव्रजतु । एवं तीर्थव्युच्छेदः। रूप प्रतिबद्धायां पुनः साधुः स्त्रीणां सविलासचङ्क्रमणस्थानप्रेक्षितप्रहसितसविस्मितमुखादीन् बहुविधानाकारान् पश्यति । ततो भुक्तभोगस्य स्मृतिकरणं भवति । अभुक्तभोगस्य तु कौतुकं नैव मया
A. पुंचिह्नम्, मेहनम् ।
B. नर्मवचनेन ।
C. सुन्दरः ।
।