________________
इजीको
मानुष्यकाः कामभोगा भुक्ता एवं तेषामुन्निष्क्रमणादयो दोषा भवन्ति । ताः स्त्रियो वा तत्रस्थितान् साधून् दृष्ट्वा एवं चिन्तयेयुः । अहो ! जल्लमलमलिनदेहानामप्येतेषां साधूनां कीदृशी लावण्यश्रीः । गृहवासे पुनरभ्यङ्गादिसंस्कारेणास्याः सकाशात् शतगुणा आसीदिति । शब्दप्रतिबद्धायां तु स्त्रीणां गीतानि पठितानि सविकारहसितानि मञ्जुलालापान् वलयनूपुरादिभूषणशब्दान् मैथुनशब्दाँश्च श्रुत्वा साधूनां मनः क्षुभ्यति । उन्निष्क्रमणं करोति । स्वलिङ्गस्थितो वाऽनाचारमाचरति हस्तकर्म वा करोति । तस्मादेतद्दोषपरिहरणार्थं न स्थातव्यं भावप्रतिबद्धवसतौ । अथ शुद्धा वसतिर्न लभ्यते ततो द्रव्यप्रतिबद्धायां स्थातव्यम्, तदभावे ज्योतिष्प्रतिबद्धायां वसतौ स्थेयम्, तदभावे बहिर्वृक्षस्याऽधस्तात् । अथ बहिः स्तेनश्वापदभयं वृष्टिर्वा ततो भावप्रतिबद्धायामपि वसतौ तिष्ठन्ति । तत्रापि प्रथमं रूपप्रतिबद्धायां तत्र च पूर्वभणितदोषपरिहरणार्थमन्तरे कटादिकं ददति । तस्या अप्यभावे प्रस्रवणप्रतिबद्धायाम्, तत्रापि पूर्वभणितदोषपरिहाराय मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति । मात्रकाभावे अन्यस्थानाभावे च वृन्देन बोलं कुर्वन्तः कायिकाभूमौ प्रविशन्ति । तासां च या वेला तां वर्जयन्ति । प्रस्रवणप्रतिबद्धाया अप्यभावे शब्दप्रतिबद्धायां तिष्ठन्ति । तत्रापि प्रथमं भूषणशब्दप्रतिबद्धायां पश्चाद् भाषाशब्दप्रतिबद्धायां तत्रापि पूर्वोक्तदोषपरिहाराय समुदिता महता शब्देन स्वाध्यायं कुर्वन्ति, ध्यानसलब्धयो वा ध्यानं ध्यायन्ति । तदभावे स्थानप्रतिबद्धायां तिष्ठन्ति । तत्रापि पूर्वोक्तदोषपरिहरणार्थमुपकरणं विप्रकीर्णं तथा स्थापयन्ति यथा तासां स्थानं न स्यात् । स्वयं वा विप्रकीर्णास्तिष्ठन्ति । स्थानप्रतिबद्धाया अप्यभावे रहस्यशब्दप्रतिबद्धायां तिष्ठन्ति । तत्रापि दोषपरिहाराय वैराग्यकरं श्रुतं पठन्ति यथा तं शब्दं न शृण्वन्ति । अथवा यदस्खलितं श्रुतं यस्याऽऽगच्छति स तद्गुणयति, ध्यानसलब्धिर्ध्यानं ध्यायति । ध्याने पाठे वा योऽलब्धिः स कर्णौ स्थगयति, तथापि यदि शब्दं शृणोति तदा शब्दं करोति तथा यथा तयोर्लज्जितयोर्मोहो नश्यति । तथापि यदि न तिष्ठत्यनाचारसेवनात् तदा जनज्ञातं करोति । इति तृतीयभङ्गवसतौ दोषयतना । अथ द्रव्यतो भावतः प्रतिबद्धा वसतिरिति प्रथमभङ्गः । तत्र द्रव्यप्रतिबद्धभावप्रतिबद्धो भयपक्षोक्ता दोषा यतना चाऽवगन्तव्या । एवं पशुपण्डकसंसक्तवसतावपि दोषा यतना च स्वयमवसातव्याः । अथवा वसतिस्त्रिधा - युक्तप्रमाणा अतिरिक्तप्रमाणा हीनप्रमाणा च । तत्र साधुभिस्त्रिहस्तभूमिखण्डरूपसंस्तारकप्रमाणं गृह्णानैर्या सर्वापि व्याप्यते सा युक्तप्रमाणा । या न व्याप्यते साऽतिरिक्तप्रमाणा । यत्र सम्बाधया तिष्ठन्ति सा हीनप्रमाणा । एतासु तिसृष्वपि विद्यमानासु प्रथमायां स्थातव्यम् । तदभावे हीनप्रमाणायाम्, तदलाभेऽतिरिक्तप्रमाणायाम् । तत्रातिरिक्तप्रमाणघङ्घशालादिवसतौ स्थिताः साधवो भूमौ वस्त्र - पात्राणि संस्तारकानर्दवितर्दान् तथा कुर्वन्ति यथा तानि दृष्ट्वा स्थातुमनसोऽपि