Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 117
________________ इ-जीयकप्पो चतुर्थद्वारे अहोरात्रात् परतोऽशय्यातरो भवति । तदुक्तम् - वुत्थे वज्जिज्जहोरत्तं ' । इदमत्र हृदयम्-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने तावत्या वेलायाः परतः शय्यातरो न भवति । पञ्चमद्वारे साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्जनीयः । षष्ठद्वारे— तित्थंकरपडिकुट्ठो आणाण्णाउग्गमो वि अ न सुज्झे । अविमुत्ति अलाघवया दुल्लहसिज्जाइवुच्छेओ' ।। (नि० भा० ११५९, बृ०क० ३५४० ) अस्या व्याख्या–आद्यन्तवर्जेर्मध्यमैर्महाविदेहजैश्च तीर्थकरैः वरमाधाकर्म कथञ्चिदुक्तम्, न पुनः शय्यातरपिण्डोऽतस्तत् प्रतिक्रुष्टत्वाद्वर्जनीयोऽयम् । आण' त्ति । तं च गृह्णता तीर्थकराऽऽज्ञा न कृता स्यात् । अण्णा' त्ति । यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोञ्छं च न कृतं स्यात् । उग्गमो वि अ न सुज्झे' त्ति । आसन्नादिभावतः पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाश्च स्युः । स्वाध्यायश्रवणादिभ्यश्च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति तच्च गृह्णता 'अविमुक्तिः ' गार्ध्याभावो न कृतः स्यात् । अलाघवय' त्ति । शय्यातरतत्पुत्रपितृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृह्णत उपकरणशरीरयोर्लाघवं न स्यात् । तत्रैवाहारादि गृह्णतः शय्यातरवैमनस्यादिकारणात् शय्या दुर्लभा स्यात् सर्वथा वा तद्व्यवच्छेदः स्यात् । अतस्तत्पिण्डो वर्जनीयः । सप्तमद्वारे सुविहे गेलन्नम्मी निमंतणा दव्बदुल्लहा असिवे । ओमोदरिअ पओसे भए अ गहणं अणुण्णायं ' ।। (नि० भा० ११६९, बृ०क० ३५५० ) व्याख्या–आगाढाऽनागाढे द्विविधग्लानत्वे सूत्रोक्तविधिना शय्यातरपिण्डोऽपि ग्राह्यः । निमन्त्रणे च शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः । दुर्लभे च क्षीरादिद्रव्येऽन्यत्रालभ्यमाने तत्रैव गृणन्ति । ओसि' त्ति । राज्ञा प्रद्विष्टेन सर्वत्र भैक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृह्णन्ति । तस्करादिभये चान्यत्र तत्रापि स्वीकुर्वन्ति । शेषं सुगमम् । अष्टमद्वारे स्वस्थाने वसन् शय्यातरो भवति देशान्तरे गतो न भवत्यपि । केवलं भद्रकप्रान्तदोषात् पिण्डस्तत्रापि वर्जनीयः । भद्रको हि मम तावत् स्वगृहावस्थितस्यामी न किञ्चिद् गृह्णन्ति, ततोऽत्र यदि गृह्णन्ति तथापि शोभनमिति विचिन्त्य अनेषणीयमपि कृत्वा दद्यात् । प्रान्तस्तु मम स्वगृहस्थितस्यामी न किञ्चिद् गृह्णन्ति । अत्र तु सर्वं गृह्णन्ति । तत् किमिदानीमहमन्यः सञ्जतः ? तस्मान्मायाविन एते इति विचिन्त्य वसत्युच्छेदादि कुर्यादिवं शय्यातरसम्बन्धिनां भ्रातृमातुलकादीनामुपाश्रयस्य प्रभूणामपि सम्बन्धी पिण्डो वर्जनीयो भद्रकप्रान्तादिदोषादित्यलं विस्तरेण । तदर्थिना तु कल्पतृतीयोद्देशको निशीथद्वितीयोद्देशकोवाऽन्वेष्यः । अथ मनोज्ञं मनसो रुचितं यद्विशिष्टवर्णगन्धरसस्पर्शेरुपेतं भक्तं भोजनमशनादि । पानं पानीयं गन्धरसोपेतमच्छं च मनोज्ञं तद्विपरीतममनोज्ञम् । सरसमपि दुर्गन्धममनोज्ञम् । अरसमपि सुगन्धं मनोज्ञं ततो मनोज्ञामनोज्ञे भक्तपानीये गृहीत्वा यदमनोज्ञं भक्तं पानीयं वा तत् त्यक्त्वा परिष्ठाप्य मनोज्ञस्य भक्तपानस्य भोजने विधीयमाने साधोर्लघुमासो भवति । आज्ञाभङ्गादयश्च दोषाः ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226