________________
इ-जीयकप्पो
चतुर्थद्वारे अहोरात्रात् परतोऽशय्यातरो भवति । तदुक्तम् - वुत्थे वज्जिज्जहोरत्तं ' । इदमत्र हृदयम्-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने तावत्या वेलायाः परतः शय्यातरो न भवति । पञ्चमद्वारे साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्जनीयः । षष्ठद्वारे—
तित्थंकरपडिकुट्ठो आणाण्णाउग्गमो वि अ न सुज्झे । अविमुत्ति अलाघवया दुल्लहसिज्जाइवुच्छेओ' ।। (नि० भा० ११५९, बृ०क० ३५४० ) अस्या व्याख्या–आद्यन्तवर्जेर्मध्यमैर्महाविदेहजैश्च तीर्थकरैः वरमाधाकर्म कथञ्चिदुक्तम्, न पुनः शय्यातरपिण्डोऽतस्तत् प्रतिक्रुष्टत्वाद्वर्जनीयोऽयम् । आण' त्ति । तं च गृह्णता तीर्थकराऽऽज्ञा न कृता स्यात् । अण्णा' त्ति । यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोञ्छं च न कृतं स्यात् । उग्गमो वि अ न सुज्झे' त्ति । आसन्नादिभावतः पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाश्च स्युः । स्वाध्यायश्रवणादिभ्यश्च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति तच्च गृह्णता 'अविमुक्तिः ' गार्ध्याभावो न कृतः स्यात् । अलाघवय' त्ति । शय्यातरतत्पुत्रपितृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृह्णत उपकरणशरीरयोर्लाघवं न स्यात् । तत्रैवाहारादि गृह्णतः शय्यातरवैमनस्यादिकारणात् शय्या दुर्लभा स्यात् सर्वथा वा तद्व्यवच्छेदः स्यात् । अतस्तत्पिण्डो वर्जनीयः । सप्तमद्वारे
सुविहे गेलन्नम्मी निमंतणा दव्बदुल्लहा असिवे । ओमोदरिअ पओसे भए अ गहणं अणुण्णायं ' ।। (नि० भा० ११६९, बृ०क० ३५५० ) व्याख्या–आगाढाऽनागाढे द्विविधग्लानत्वे सूत्रोक्तविधिना शय्यातरपिण्डोऽपि ग्राह्यः । निमन्त्रणे च शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः । दुर्लभे च क्षीरादिद्रव्येऽन्यत्रालभ्यमाने तत्रैव गृणन्ति । ओसि' त्ति । राज्ञा प्रद्विष्टेन सर्वत्र भैक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृह्णन्ति । तस्करादिभये चान्यत्र तत्रापि स्वीकुर्वन्ति । शेषं सुगमम् । अष्टमद्वारे स्वस्थाने वसन् शय्यातरो भवति देशान्तरे गतो न भवत्यपि । केवलं भद्रकप्रान्तदोषात् पिण्डस्तत्रापि वर्जनीयः । भद्रको हि मम तावत् स्वगृहावस्थितस्यामी न किञ्चिद् गृह्णन्ति, ततोऽत्र यदि गृह्णन्ति तथापि शोभनमिति विचिन्त्य अनेषणीयमपि कृत्वा दद्यात् । प्रान्तस्तु मम स्वगृहस्थितस्यामी न किञ्चिद् गृह्णन्ति । अत्र तु सर्वं गृह्णन्ति । तत् किमिदानीमहमन्यः सञ्जतः ? तस्मान्मायाविन एते इति विचिन्त्य वसत्युच्छेदादि कुर्यादिवं शय्यातरसम्बन्धिनां भ्रातृमातुलकादीनामुपाश्रयस्य प्रभूणामपि सम्बन्धी पिण्डो वर्जनीयो भद्रकप्रान्तादिदोषादित्यलं विस्तरेण । तदर्थिना तु कल्पतृतीयोद्देशको निशीथद्वितीयोद्देशकोवाऽन्वेष्यः । अथ मनोज्ञं मनसो रुचितं यद्विशिष्टवर्णगन्धरसस्पर्शेरुपेतं भक्तं भोजनमशनादि । पानं पानीयं गन्धरसोपेतमच्छं च मनोज्ञं तद्विपरीतममनोज्ञम् । सरसमपि दुर्गन्धममनोज्ञम् । अरसमपि सुगन्धं मनोज्ञं ततो मनोज्ञामनोज्ञे भक्तपानीये गृहीत्वा यदमनोज्ञं भक्तं पानीयं वा तत् त्यक्त्वा परिष्ठाप्य मनोज्ञस्य भक्तपानस्य भोजने विधीयमाने साधोर्लघुमासो भवति । आज्ञाभङ्गादयश्च दोषाः ।