________________
जइ - जीयकप्पो इमे चापरे दोषाः-मनोज्ञभोजिनो रसगृद्धिः स्यात् । अपरसाधुभ्यः प्रमाणतो वाऽधिकभक्षणं स्यात्, विभज्य केवलमनोज्ञस्य भोजने काकशृगालखादितदोषः अङ्गारदोषश्च भवति । रसगृद्धो गच्छे रसाभावेन धृतिमलभमानो गच्छादपक्रामति । मायावी मण्डल्यां रसालमलभमानो भिक्षागत एव रसालं भुक्त्वा आगच्छति । उक्तं चभद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' (दशवै० ५।२।३३ उत्तरार्धः) इत्यादि । रसभोजने च लुब्ध एषणामपि लुम्पति आर्यमङ्गवत् । मङ्वाचार्यो हि रसलाम्पट्यादवसन्नो जातो मृत्वा भवनपतिषूत्पन्नो जिह्वानिर्लालनेन साधूननुशशास । विपक्षे आर्यसमुद्रनिदर्शनम्-ते हि रसगृद्धिभीता एकतः सर्वं मिलित्वा भुअते स्म । तथाच- अरसं विरसं वा वि' (दशवै० ५।१।३८) सव्वं भुंजे न छड्डए' (दशवै० ५।२।१ उत्तरार्धः) इति सूत्राभिहितं कृतं स्यात् । अमनोज्ञलाभेऽपि मनोज्ञभक्तादिनिमित्तं गोचरचर्या दीर्घा स्यात् । तथा च सूत्रार्थपरिमन्थो भवेत् । अमनोज्ञभक्तपरिष्ठापने च जन्तुविराधना स्यात् । यस्मादेते दोषाः ततो विधिना भोक्तव्यम् । स चाऽयम्-आचार्य-ग्लान-बाल-वृद्ध-प्राघुर्णकादीनां प्रायोग्यं पूर्वं दत्त्वा शेष मनोज्ञममनोज्ञं च द्रव्याविरोधेन करम्बयित्वा मण्डलीरात्निको मण्डल्या सह भुङ्क्ते । एवं सर्वेषां समता स्यात् । पूर्वोक्तदोषाश्च परिहता भवन्ति । एवममनोज्ञं कलुषं पानीयं परिष्ठाप्य मनोज्ञमच्छं पिबतो दोषा ज्ञेयाः । कलुषपानीयपरिष्ठापने च मक्षिका पिपीलिकादिबहुत्रसजन्तुघातो भवति । अत्रापीयं सामाचारीकलषमच्छं च जलं पृथक्कत्वा प्रथमं कलषं पिबन्ति पश्चादच्छम् । एवं गद्धिदोषो न स्यात । आचार्याऽभावितशैक्षग्लानादीनामच्छं दीयते । भाजनकल्पकरणबहिभूमिव्यापारणादावच्छं जलं गृह्यते । अन्यथा सागारिकः कलुषजलं दृष्ट्वा सर्वपाखण्डिष्वेते अधमतरा अशुचित्वादित्यपभ्राजनां लोके करोति, अनादरं वा तद्व्यान्यद्रव्यव्यवच्छेदं वा । कारणैः पुनरमनोज्ञं परिष्ठाप्य मनोज्ञं गृह्णानोऽपि प्रायश्चित्तभाग न स्यात् ।। १६९।। तथा अशनादिचतुर्विधाहारगतकियद्वस्तुविशेषग्रहणविषयं प्रायश्चित्तं क्रमेणोपदर्शयन्नाह
असणे अकारणं दुद्धदहिअभोगम्मि गुरुग लुद्धस्स ।
पाणम्मि गुरुग विअडे सचित्तजलि छलहु लहुमीसे ।।१७०।। व्याख्या-इहाशनाहारमध्ये साधूनां दुग्धदध्यादिविकृतयः कारणं विना न कल्पन्ते ग्रहीतुम् । अकारणग्रहणे चायं दोषःविगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेई' ।।
(पच्चक्खाणभाष्यम् ४०, पंचवस्तुकम् ३७०) बीभत्सा विकृता वा गतिर्विगतिः नरकतिर्यक्कुमनुष्यत्वकुदेवत्वलक्षणा । अथवा विविधा गतिर्विगतिः संसारः । अथवा संयमो गतिः, असंयमो विगतिः तस्या भीतो विगतिभीतो यः साधुः विकृति क्षीरादिकां विकृतिगतं विकृतिप्रकारं विकृतिर्वा यस्मिन् द्रव्ये गता तत् विकृतिगतं क्षीरान्नादिकं भुङ्क्ते स दुर्गतिं यातीति वाक्यशेषः । यतो विकृतिबलाज्जीवमनिच्छन्तमपि विगतिं नरकादिकां नयति प्रापयति । एतदपि कुतः ?।