________________
जइ - जीयकप्पो विकृतिर्यतो विकृतिस्वभावा विकारजननस्वभावा संयमयोगभ्रंशजननस्वभावेत्यर्थः । यत एवमतो विकृतयो न ग्राह्याः कारणमन्तरेण । सम्प्रति चेयं सामाचारी साधूनां-दुग्धदधिगुडरूपा एतास्तिस्रो विकृतयो विकृष्टतप
औषधादिकारणं विना न कल्पन्ते । घृततैलविकृती तु प्रत्यहं न कल्पेते, संयमयोगनिर्वाहार्थं पुनः कदाचित्कल्पेते। उद्गाहिमविकृतिरपि जिह्वालौल्येन न कल्पते । एवं पानखादिमस्वादिमाहारगतकियद्वस्तूनि न कल्पन्ते । तद्ग्रहणे च प्रायश्चित्तम् । तद्यथा अशने अशनाहारमध्ये अकारणं कारणं विना दुग्धदधिभोगे दुग्धदधिग्रहणे लुब्धस्य गृद्धस्य साधोर्गुरुका मासाश्चत्वारः स्युः । सुब्धस्येति' वचनात् तक्राद्यभावे तद्ग्रहणेऽपि न दोषः । तथा पाने पानाहारमध्ये विकटे मद्ये गृहीते गुरुकाश्चत्वारो मासा भवन्ति । सचित्तजले गृहीते षड्लघु प्रायश्चित्तम् । मिश्रे सचित्ताऽचित्तरूपे जले गृहीते लघुमासो भवति । इह च साधूनां कल्पाध्ययनोक्तानि पानीयान्यमूनिउस्सेइमसंसेइमचाउलओदगं च तिलतुसजवाणं । आयामं सोवीरं सुद्धविअडमिअ जलं नवहा' ।
(लघुप्रवचनसारोद्धार ९०) उत्स्वेदिमम्, संस्वेदिमम्, तन्दुलोदकम्, तिलोदकम्, तुषोदकम्, यवोदकम्, आयामम्, सौवीरम्, शुद्धविकटम्। तत्रोत्स्वेदिमं पिष्टोत्स्वेदनार्थमुदकं पिष्टभृतहस्तादिक्षालनजलं वा, संस्वेदिमं येनारणिकादिपर्णाद्युत्काल्य शीतोदकेन सिच्यते । चाउलोदकं तन्दुलधावनोदकम्, तिलोदकं महाराष्ट्रादिषु निस्त्वगचित्ततिलधावनजलम् । तुषोदकः व्रीह्यादिधावनम्, यवोदकं यवधावनम्, आयामम् अवस्रावणम्, सौवीरं काअिकम्, शुद्धविकटम् उष्णोदकम् उवृत्तत्रिदण्डमेव नापरं तस्य मिश्रत्वात् । एतेषां च पानीयानां मध्ये काञ्जिकमेव पूर्वं साधुभिाह्यं तदभावेऽपरपानीयग्रहणानुज्ञाप्रतिपादनात् । तथा चोक्तं निशीथपीठेकांजिअआयामासइ संसद्सुणोदगेसु वा असती । फासुअमुदगं तसजढं तस्सऽसति तसेहिं जं रहिअं' ।।
(नि०भा० २००) अस्याश्चूर्णिः-पू(पु? )व्वं ताव कंजिअंगिण्हति । कंजिअं देसीभासाए आरनालं भण्णति । आयामं अवसामणं। एतेसिं असतीए संसट्ठसुणोदगं गिण्हति । गवगरसभायणनिक्केअणं जं तं संसट्ठसुणोदगं भण्णति । अहवा कोसलविसयादिसु सल्लोअणो विणस्सणभया सीतोदगे छुन्भति । तम्मि अ ओअणे भुत्ते अंबीभूअं तं जइ अतसागं ता घिपति । एवं वा संसट्ठसुणोदगं । एतेसि असतीए जं वप्पादिसु फासुगमुदगं तं तसजढं घिप्पति । तस्सासति' त्ति । फासुअ अतसागस्स असति फासुग सतसागं धम्मकरकादिपरिपूअं धिप्पति । सबहा फासुगासति सचित्तं जं तसेहिं रहिअंति । अतः काञ्जिकजलाद्यलाभे उत्स्वेदिमादीनि पानकानि गृह्यन्ते ।। १७०।। तान्यपि कानिचिन्मिश्राणि भवन्ति तानि न कल्पन्त इति तद्विचारं दर्शयन्नाहA. गोरसः (दधिदुग्धादिः) B. सजीवरहितम् C. वस्त्रादेः गालितं = गरणा विगेरेथी गाळेलु' इति भाषायाम्