________________
जइ - जीयकप्पो पढमुस्सेइममुदयं न कप्पई कप्पई उ केसिपि । तन्न जुज्जइ जम्हा मीसं उसिणंपि जा दंडो ।।१७१।।
(नि०भा० ५९७१) व्याख्या-यत्र शीतोदके उत्स्विन्नं क्षिप्यते तदुदकम् उत्स्वेदिमम् । यथा-मरहट्ठदेशे दीवगा उत्स्वेदिताः शीतोदके क्षिप्यन्ते तदुदकमुत्स्वेदिमम् । ते च दीवगादय उत्स्वेदिता एकस्मिन् द्वयोस्त्रिषु वा पानीयेषु क्षिप्यमाणा निर्वलन्ते । तत्र द्वितीयतृतीयपानीये सर्वेषामेवाचार्याणां मतेनाऽकल्प्ये एव । यत् प्रथममुत्स्वेदिममुदकं तदपि न कल्पते । केषाश्चित् पुनराचार्याणां मतेन तत्कल्पते । तन्न युज्यते, कस्मात् ? यस्मादुष्णमपि उत्कालितमपि उदकं यावद्दण्डोऽत्र जातावेकवचनं ततोऽयमर्थः । यावत् त्रयो दण्डा उत्काला न जायन्ते तावन्मित्रं भवति । तथाहि-प्रथमे दण्डे जायमाने किञ्चित् परिणमति किञ्च(ञ्चि?)न्नेति मिश्रम् , द्वितीये प्रभूतं परिणमति स्तोकमवतिष्ठते, तृतीये तु सर्वमप्यचित्तं भवति । ततोऽनुवृत्तेषु त्रिषु दण्डेषु उष्णोदकं मिश्रमेव सम्भवति । यद्येवमुष्णोदकमपि मिश्रं भवति तर्हि कथं तेषु दीवगादिषु उत्स्वेदितेषु क्षिप्तेषु तत्प्रथमोदकमचित्तं भविष्यतीत्यर्थः । एवं संस्वेदिममपि किञ्चिन्मिश्रं भवति । यथा संस्विन्नारणिकादिपत्राणि शीतोदकेन सिच्यन्ते । तत्र प्रथमद्वितीयपानीये प्रासुके भवतः । तृतीयचतुर्थपानके तु मिश्रे स्याताम् । तथा तन्दुलोदकमपि मिश्र भवति ।। १७१।। तदुपदर्शनपूर्वकं मिश्रग्रहणप्रायश्चित्तमाह
पढमबितिचाउलोदगि अहुणाधोअम्मि मीसगति लहू । .
लहुगसचित्ते तुरिए तइएवि परे चिरकएवि ।।१७२।। व्याख्या-तन्दुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकालकृतानि नियमान्मिश्राणि भवन्ति, ततः परं चतुर्थादिधावनं सचित्तम् । एवं तिल-तुष–यवधावनोदकान्यपि अधुना कृतानि मिश्राण्यवगन्तव्यानि । ततः प्रथमद्वितीयतृतीयतन्दुलोदकेऽधुना धौते गृहीते लघुमासः प्रायश्चित्तं भवति, मिश्रकपरिणतमिदमिति हेतोः । अन्यस्मिन्नपि तिलधावनादिके उदकेऽधुना धौते मिश्रे गृहीते लघुमासः प्रायश्चित्तमवसेयम् । तन्दुलानां च तुर्ये चतुर्थे धावने सचित्ते गृहीते चतुर्लघुकं भवति । परे अन्ये आचार्याः पुनस्तृतीयेऽपि तन्दुलानां तृतीयधावनेऽपि न केवलं चतुर्थे, चिरकृतेऽपि न केवलमचिरकृते चतुर्लघुप्रायश्चित्तमाहुः । यतस्तत्रापि बहु अपरिणतं स्तोकं परिणतमिति । तन्दुलोदके च यान्याद्यानि-प्रथमद्वितीयतृतीयानि त्रीणि धावनानि मिश्राण्यभिहितानि तानि चिरमवतिष्ठमानान्यचित्तानि भवन्ति । चतुर्थादीनि तु धावनानि चिरमवतिष्ठमानान्यपि सचित्तानीति तेषामग्रहणमेव । मिश्राणां च तन्दुलोदकानां परिणामे इमे त्रयोऽनागमिका आदेशास्तद्यथाभंडगपासगलग्गा उत्तेडा बुब्बुआ य न समंति । जा ताव मीसगं तंदुला य रझंति जावन्ने' ।।
(पिं०नि० २६) A. जे पाणीमां दही-वडा नाख्या होय ते गरम पाणी' इति भाषायाम् ।