________________
जइ - जीयकप्पो व्याख्या-तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डे प्रक्षिप्यमाणे ये त्रुटित्वा भाण्डकस्य पार्थेषु उत्तेडा बिन्दवो लग्नास्ते यावन्न शाम्यन्ति विध्वंसमुपगच्छन्ति, तावत्तं तन्दुलोदकं मित्रं ततः परमचित्तमित्येके । अपरे पुनराहुः-तन्दुलोदके तन्दुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तन्दुलोदकस्योपरि समुद्भूता बुबुदास्ते यावदद्यापि न शाम्यन्ति न विनाशमियूति तावत् तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति । अन्ये पुनरेवमाहुः-तन्दुलप्रक्षालनानन्तरं तन्दुला राखुमारब्धाः । ततस्ते यावन्न राध्यन्ति यावन्नाद्यापि सिद्ध्यन्ति तावत् तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति । एते त्रयोऽप्यादेशा अनादेशा एव । कालनियमस्यासम्भवात् । न खलु बिन्द्वपगमे बुबुदापगमे तन्दुलपाकनिष्पत्तौ वा सर्वदा सर्वत्र प्रतिनियत एव कालः, येन प्रतिनियतकालसम्भविनो मित्रत्वादूर्ध्वमचित्तत्वस्याप्यभिधीयमानस्य न व्यभिचारसम्भवः । कालनियमासम्भवश्चारूक्षेतरभाण्डपवनसम्भवाऽसम्भवचिरकालजलभिन्नत्वाऽभिन्नत्वादिभिः । इयमत्र भावना-स्नेहजलादिना यन्न भिन्नं भाण्डं तत् रूक्षमुच्यते । स्नेहादिना तु भिन्नं स्निग्धम् । तत्र रूक्षे भाण्डे तन्दुलोदके प्रक्षिप्यमाणे ये बिन्दवः पार्थेषु लग्नास्ते भाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति । स्निग्धे तु भाण्डे भाण्डस्य स्निग्धतया चिरकालम्। ततः प्रथमादेशवादिनां मते रूक्षे भाण्डे बिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहण प्रसङ्गः। स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया न ग्रहणमिति । तथा बुबुदा अपि प्रचुरखरपवनसम्पर्कतो झटिति विनाशमुपगच्छन्ति । प्रचुरखरपवनसम्पर्काभावे तु चिरमप्यवतिष्ठन्ते । ततो द्वितीयादेशवादिनामपि मते यदा खरप्रचुरपवनसम्पर्कतो झटिति विनाशमैयरुः बुबुदास्तदा परमार्थतो मिश्रस्यापि तन्दुलोदकस्याचित्तत्वेन सम्भावनया ग्रहणप्रसङ्गः । यदा तु खरप्रचुरपवनसम्पर्काभावे चिरकालमप्यवतिष्ठन्ते बुबुदास्तदा परमार्थतोऽचित्तीभूतस्यापि तन्दुलोदकस्य बुबुददर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति । येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थं पर्यालोचितवन्तः । तन्दुलानां चिरकालपानीयभिन्नाभिन्नत्वेन पाकस्यानियतकालत्वात् । तथाहि-ये चिरकालसलिलभिन्नास्तन्दुला न च नवीना इन्धनादिसामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते शेषास्तु मन्दम् । ततस्तेषामपि मतेन कदाचिन्मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः । कदाचित् पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः । अयं पुनरादेश आगमिकःआव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो । होइ पमाणमचित्तं बहुप्पसन्नं तु नायव्वं' ।।
(पिं०नि० २८) व्याख्या-यावत् तन्दुलोदकं न बहुप्रसन्नं नातिस्वच्छीभूतं तावन्मिश्रमवगन्तव्यम् । एषोऽत्र मिश्रविचारप्रक्रमे भवत्यादेशः प्रमाणम्, न शेषः । यत्तु बहुप्रसन्नमतिस्वच्छीभूतं तदचित्तं ज्ञातव्यम् । तथा चोक्तम्A. विनाशं गच्छन्ति । B. विनाशमगच्छन् ।