________________
जइ - जीयकप्पो अं जाणिज्ज चिराधोअं मइए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा जं च निस्संकिअं भवे' ।।
(दशवै० ५-१-७६) ततोऽचित्तत्वेन तस्य ग्रहणे न कश्चिद्दोषः । एवमपरधावनेष्वपि प्रथमद्वितीयतृतीयधावनोदकानि मिश्राण्यवगन्तव्यानि, चतुर्थादीनि तु सचित्तानि । तान्यपि च मिश्रधावनोदकानि उत्स्वेदिमसंस्वेदिममिश्रोदकानि च यदा रसत आम्लरसानि, वर्णतो विवर्णानि, गन्धतोऽन्यगन्धानि, स्पर्शतश्चिफिलानि जायन्ते तदा परिणतानि ज्ञातव्यानि । तेषां ग्रहणे न दोषः ।।१७२।। एवं पानाहारविषयं प्रायश्चित्तं प्रदर्श्य खादिमाहारविषयं तदाह
खाइमि भावे दवे अभिन्नभिन्ने पलंबि चउभंगो । पढमे कालतवगुरू लहुगा बीअम्मि तवगुरुगा ।।१७३ ।। तइए कालगुरु लहू चरमे लहु दोहि लहु इअ परित्ते ।
ते गुरुगणति साइमि लवंगपूआइए गुरुगा ।।१७४।। व्याख्या-प्रलम्बते नैरयिकादिकां गतिं प्रति लम्बते येन भुक्तेन जीवः तत् प्रलम्बम् । तच्च दशधा तद्यथामूले कंदे खंधे तया य साले पवालपत्ते अ । पुफे फले अ बीए पलंबसुत्तम्मि दसभेआ' ।।
(बृ०क० ८५४) मूलम्, कन्दः, स्कन्धः, त्वक् छल्ली, शाला शाखा, प्रवालं पल्लवः, पत्रम्, पुष्पम्, फलम्, बीजम् । एवं दशप्रकारं प्रलम्बं भवति । सर्वमप्येतत् द्विधा भिन्नम् अभिन्नं च । पुनः प्रत्येकं द्विधा द्रव्यतो भावतश्च । तत्र यद् विदारितं तत् द्रव्यतो भिन्नम्, जीवेन विप्रमुक्तं यत् तद् भावतो भिन्नं तद्विपरीतं त्वभिन्नम् । अत्र चत्वारो भङ्गा भवन्ति । तद्यथा-द्रव्यतो भावतश्चाऽभिन्नम्, द्रव्यतो भिन्नं भावतस्त्वभिन्नम्, भावतो भिन्नं द्रव्यतः पुनरभन्निम्, द्रव्यतो भावतश्च भिन्नम् । एतेषु चतुर्ध्वपि भङ्गेषु क्रमेण प्रायश्चित्तं प्रदश्यत । यथा-खादिमे खादिमाहारमध्ये प्रथमे प्रथमभङ्गप्रदर्शितप्रलम्बे द्रव्यतो भावतश्चाभिन्ने इत्यर्थः । गृहीते भिक्षोश्चत्वारो लघुका मासाः । कथम्भूताः? कालतपोगुरवः कालेन तपसा च गुरवो भवन्ति । द्वितीये भने चत्वारो लघुकास्तपोगुरवः तपसैवैकेन गुरवो न कालेनेत्यर्थः । एतयोर्द्वयोरपि भङ्गयोर्भावतोऽभिन्नतया प्रलम्बस्य सचेतनत्वात् । तृतीये भङ्गे लघुको मासः कालगुरुः कालेन गुरुर्न तु तपसा । चरमे चतुर्थे भने लघुमासो द्वाभ्यां लघुः । कालेन तपसा च लघुरित्यर्थः । इति उक्तप्रकारेण परीत्ते प्रत्येकवनस्पतिलक्षणे प्रलम्बे प्रायश्चित्तं भणितम् । अनन्तेऽनन्तकाय प्रलम्बे पुनस्तानि प्रायश्चित्तानि गुरुकाणि ज्ञातव्यानि । प्रथमद्वितीययोर्भङ्गयोश्चत्वारो गुरुकाः । तृतीयचतुर्थयोस्तु गुरुमासः प्रायश्चित्तं तपःकालविशेषितं पूर्ववद्वक्तव्यमिति भावः । तथा प्रलम्बानि गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति। अनवस्था मिथ्यात्वं विराधना च संयमात्मविषया कृता भवति । तथा प्रलम्बान्यनाचीर्णानि । तथा चोक्तम्