________________
जइ - जीयकप्पो निमन्त्रणं निमन्त्रो निमन्त्रणा ततः सह निकाचेन वर्त्तते यो निमन्त्रः स सनिकाचनिमन्त्रः । अयमर्थः- गृही साधु निमन्त्रयति-यथा भगवन् ! अनुग्रहं कुरु मम गृहे भक्तं गृहाण । ततः साधुर्भणति-करोम्यनुग्रहं परं किं दास्यसि ? गृही भणति-येन तेऽर्थः, ततः साधुरुत्पीलनं कुर्वन् भणति-गृहं गतस्य दास्यसि न वा ? गृहिणा दास्यामीति भणिते साधुः परिमाणं कारयन् भणति-कियत् परिमाणं कियच्चिरं वा कालं दास्यसि ? ततो गृही भणति यावन्मात्रेण भक्तेन तेऽर्थो यावन्तं वा कालं तेऽर्थः, किंबहुना भणितेन ? यत्तुभ्यं रोचते द्रव्यं यावत्परिमाणं यावन्तं वा कालं तदपरिहीणमहमवश्यं दास्यामीत्येवंविधा या निमन्त्रणा सा सनिकाचाऽवगन्तव्या। निकाचशब्देन चात्रोत्पीलनपरिमाणे गृह्यते । ततो निमन्त्रणोत्पीलनपरिमाणेषु त्रिष्वपि मासलघु प्रायश्चित्तं भवति । अथवा प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमन्त्रितस्य नित्यं गृह्णतः सनिकाचनिमन्त्रणापिण्डो नित्यपिण्ड इत्यर्थः । ततः सनिकाचनिमन्त्रे सनिकाचनिमन्त्रणापिण्डे लघुमासः । नन्वत्र स्वभावनिष्पन्नेऽप्याहारे गृह्यमाणे किं दूषणम् ? येन प्रायश्चित्तापत्तिः । उच्यते, आत्मार्थनिष्पन्नोऽप्याहारो नियतदाननिमन्त्रणादिभिः सदोषः स्यात् । स्थापनादीनां दोषाणां सम्भवात् । ततो निमन्त्रणादिपिण्डस्त्याज्यः। सागारिकः शय्यातरः । शय्यया साधुसमर्पितगृहलक्षणया भवार्णवं तरतीतिव्युत्पत्तेः । तस्य पिण्डो वक्ष्यमाणलक्षणो न भोक्तव्यः । तस्मिन् सागारिकपिण्डे गृहीते लघुमासः प्रायश्चित्तं भवति । अथ कोऽयं शय्यातरः ? कदा च शय्यातरो भवति ? कतिविधस्तत्पिण्डः ? कदा वा अशय्यातरो भवति ? कस्य च सम्बन्ध्यसौ वर्जनीयः ? के च तत्पिण्डग्रहणे दोषाः ? कदा च तत्पिण्डो गृह्यते ? क्व च शय्यातरो भवतीत्यष्टौ द्वाराणि । तत्रायद्वारे यतिप्रदत्तोपाश्रयप्रभुः, तेन यत्कृतप्रमाणतया निर्दिष्टो वा शय्यातरः । अत्र चैको वा बहवो वा शय्यातरा वाः । अपवादपदे पुनर्बहुषु शय्यातरेषु एकं शय्यातरं स्थापयित्वा वर्जयेत् । शेषेषु तु प्रविशेत् । द्वितीयद्वारे यदा शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदाऽसौ शय्यातरः । अथैतच्छय्यायां सकलां रात्रि जागरित्वा प्राभातिकप्रतिक्रमणमन्यत्र कुर्वन्ति, तदा मौलः शय्यातरो न भवति, किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव । अथ मौलशय्यायां रात्रौ सुप्त्वाऽन्यत्र प्रातः प्रतिक्रामन्ति, तदा मौलोऽन्यश्च द्वावपि शय्यातरौ । यदा तु वसतिसङ्कीर्णतादिकारणादनेकोपाश्रयेषु साधवस्तिष्ठन्ति, तदा यत्राऽऽचार्यः स्थितः स एव शय्यातरो नाऽन्यः । तृतीयद्वारे द्वादशधा तत्पिण्डः । तदुक्तम्असणाईआ चउरो पाउंछण वत्थ पत्तकंबलयं । सूइछुरकन्नसोहण नहरणिआ सागरिअपिंडो' ।। अयं तु तदपिण्डःसणडगलछारमल्लगसिज्जासंथारपीठलेवाई । सिज्जायरपिंडो सो न होइ सेहो अ सोवहिओ' ।।
(नि०भा० ११५४, बृ०क० ३५३५)