Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 114
________________ जइ - जीयकप्पो अङ्गारसन्निभत्वापादनात् । यत् पुनस्तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सन्नहो ! विरूपं कुथितमपक्वमसंस्कृतमलवणं चेति निन्दति, तद्भोजनं धूमं द्वेषाग्निना चरणेन्धनस्य सधूमोपमत्वकरणात् । आह चसं होइ सइंगालं जं आहारेइ मुच्छिओ संतो । तं पुण होइ सधूमं जं आहारेइ निंदतो' ।। (पिं०नि० ६९१) तत्राङ्गारदोषे चतुर्गुरुकाः, धूमदोषे चतुर्लघुकाः प्रायश्चित्तं भवति । इह साधूनामाहारग्रहणकारणानि षड् भवन्ति । तानि चामूनिवेअणवेआवच्चे इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए छटुं पुण धम्मचिंताए' ।। (पं०व० ३६५, पिं०नि० ६९८) अस्या अर्थः-वेदना बुभुक्षारूपा पीडा तदुपशमनाय । यदुक्तम्- भत्थि छुहाइसरिसिया वेअणा भुंजिज्ज तप्पसमणट्ठा'। तथा आचार्यादीनां वैयावृत्त्यकरणाय । यदाह- छाओ वेआवच्चं न तरइ काउं अओ भुंजे' । तथा ईर्यापथसंशोधनार्थम्, बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुं न शक्नोति । तथा संयमः प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थं तत्परिपालननिमित्तम् । तथा प्राणप्रत्ययार्थं प्राणसन्धारणार्थम्, षठं पुनः कारणं धर्मचिन्तार्थं सूत्रानुचिन्तनादिरूपधर्मध्यानाभिवृद्ध्यर्थं भुजीतेति क्रियासम्बन्धः । षड्भिस्तु कारणैः साधुन भुञ्जीत । तानि चेमानिआयके उवस्सग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया-तवहेउं सरीरखुच्छेअणट्ठाए' ।। (पिं०नि० ७०२) अस्या अर्थः-आतङ्के ज्वराजीर्णादावुत्पन्ने सति नाश्नीयात् । तथा उपसर्गे राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सआते सति तितिक्षार्थम् उपसर्गसहनार्थं न भुजीत । तथा ब्रह्मचर्यगुप्ति' वित्यत्र षष्ठ्यर्थे सप्तमी । ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् । तथा प्राणिदयाहेतोः वर्षे वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाश्नीयात् । सूक्ष्ममण्डूकादिसंसक्तायां वा भूमौ प्राणिदयार्थमटनं परिहरन्न भुञ्जीतेति भावः । तथा तपश्चतुर्थादिलक्षणं तद्धेतोः तत्करणनिमित्तं नाद्यात् । तथा शिष्यनिष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमे काले पाश्चात्यवयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरव्यवच्छेदार्थं भोजनं परिहरेन्नान्यथा । यतः-शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः । ततश्च यानि षड् आहारग्रहणकारणान्यभिहितानि तानि विनापि बलरूपादिनिमित्तं रसगृद्ध्या वा य आहारो गृह्यते सोऽकारणाहारः । तस्मिन्नकारणाहारे गृह्यमाणे पूर्वोक्तमेव चतुर्लघु प्रायश्चित्तं भवति । तथा कारणाऽनाहारे कारणानि यान्याहारविषये प्रदर्शितानि तेषु समुत्पन्नेष्वपि आहाराऽग्रहणे चतुर्लघुप्रायश्चित्तमापद्यते यतिः ।।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226