________________
जइ - जीयकप्पो अङ्गारसन्निभत्वापादनात् । यत् पुनस्तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सन्नहो ! विरूपं कुथितमपक्वमसंस्कृतमलवणं चेति निन्दति, तद्भोजनं धूमं द्वेषाग्निना चरणेन्धनस्य सधूमोपमत्वकरणात् । आह चसं होइ सइंगालं जं आहारेइ मुच्छिओ संतो । तं पुण होइ सधूमं जं आहारेइ निंदतो' ।।
(पिं०नि० ६९१) तत्राङ्गारदोषे चतुर्गुरुकाः, धूमदोषे चतुर्लघुकाः प्रायश्चित्तं भवति । इह साधूनामाहारग्रहणकारणानि षड् भवन्ति । तानि चामूनिवेअणवेआवच्चे इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए छटुं पुण धम्मचिंताए' ।।
(पं०व० ३६५, पिं०नि० ६९८) अस्या अर्थः-वेदना बुभुक्षारूपा पीडा तदुपशमनाय । यदुक्तम्- भत्थि छुहाइसरिसिया वेअणा भुंजिज्ज तप्पसमणट्ठा'। तथा आचार्यादीनां वैयावृत्त्यकरणाय । यदाह- छाओ वेआवच्चं न तरइ काउं अओ भुंजे' । तथा ईर्यापथसंशोधनार्थम्, बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुं न शक्नोति । तथा संयमः प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थं तत्परिपालननिमित्तम् । तथा प्राणप्रत्ययार्थं प्राणसन्धारणार्थम्, षठं पुनः कारणं धर्मचिन्तार्थं सूत्रानुचिन्तनादिरूपधर्मध्यानाभिवृद्ध्यर्थं भुजीतेति क्रियासम्बन्धः । षड्भिस्तु कारणैः साधुन भुञ्जीत । तानि चेमानिआयके उवस्सग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया-तवहेउं सरीरखुच्छेअणट्ठाए' ।।
(पिं०नि० ७०२) अस्या अर्थः-आतङ्के ज्वराजीर्णादावुत्पन्ने सति नाश्नीयात् । तथा उपसर्गे राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सआते सति तितिक्षार्थम् उपसर्गसहनार्थं न भुजीत । तथा ब्रह्मचर्यगुप्ति' वित्यत्र षष्ठ्यर्थे सप्तमी । ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् । तथा प्राणिदयाहेतोः वर्षे वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाश्नीयात् । सूक्ष्ममण्डूकादिसंसक्तायां वा भूमौ प्राणिदयार्थमटनं परिहरन्न भुञ्जीतेति भावः । तथा तपश्चतुर्थादिलक्षणं तद्धेतोः तत्करणनिमित्तं नाद्यात् । तथा शिष्यनिष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमे काले पाश्चात्यवयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरव्यवच्छेदार्थं भोजनं परिहरेन्नान्यथा । यतः-शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः । ततश्च यानि षड् आहारग्रहणकारणान्यभिहितानि तानि विनापि बलरूपादिनिमित्तं रसगृद्ध्या वा य आहारो गृह्यते सोऽकारणाहारः । तस्मिन्नकारणाहारे गृह्यमाणे पूर्वोक्तमेव चतुर्लघु प्रायश्चित्तं भवति । तथा कारणाऽनाहारे कारणानि यान्याहारविषये प्रदर्शितानि तेषु समुत्पन्नेष्वपि आहाराऽग्रहणे चतुर्लघुप्रायश्चित्तमापद्यते यतिः ।।