________________
जइ - जीयकप्पो रसहेउं संयोगो पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो अ' ।।
(पिं०नि० ६७७) पिण्डाधिकाराच्च पिण्डविषयैवैषा संयोजनाऽभिहिता । एवमुपकरणविषयापि साऽवगन्तव्या । तस्यां च संयोजनायां क्रियमाणायां चतुर्गुरु प्रायश्चित्तं साधोः स्यात् । अथातिप्रमाणदोषः तत्र साधोविन्मात्रेण द्वात्रिंशत्कवलादिप्रमाणेनाहारेण भुक्तेन धृतिबलसंयमयोगा न हीयन्ते, तावन्मात्रमाहारप्रमाणं भोजने विज्ञेयम् । कुर्कुट्यण्डप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयतेबत्तीसं किर कवला आहारो कुच्छीपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं भवे कवला' ।।
(पिं०नि० ६७८) उदरभागापेक्षं त्वेवम्अद्धमसणस्स सबंजणस्स कुज्जा दवस्स दो भागे । वाउपविआरणट्ठा छन्भागं ऊणगं कुज्जा' ।। प्रकामनिकामप्रणीतभक्तपानातिबह्वाहारातिबहुवारभोजने च प्रमाणातिक्रमदोषः स्यात् । यदुक्तम्पगामं च निगामं च पणीअं भत्तपाणमाहारे । अइबहुअं अइबहुसो पमाणदोसो मुणेअव्यो।।
(पिं०नि० ६८०) तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुआनस्य प्रकामभोजनम्, तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् । गलत्स्नेह भोजनं प्रणीतम् , अतिशयेन निजप्रमाणातिरेकेण बहु अतिबहु । त्रीन् वारान् त्रिभ्यो वा वारेभ्यः परतो भोजनमतिबहुशः । अतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति, अतः प्रमाणातिक्रमो न कर्त्तव्यः। प्रमाणयुक्तमेव च भोक्तव्यं तस्यैव गुणावहत्वाद् । यदाहअप्पाहारस्स न इंदिआई विसएसु संपयटुंति । नेव किलंमइ तवसा रसिएसु न भुज्झए आवि' ।।
(पं०व० १३१२) तथाहिआहारा मिआहारा अप्पाहारा य जे नरा । न ते विज्जा चिगिच्छंति अप्पाणं ते चिगिच्छगा' ।।
(पिं०नि० ६८४) अतिप्रमाणे दोषे च चतुर्लघुकं प्रायश्चित्तं भवति ।। १६६ ।।
इंगाले चउगुरुगा चउलहु धूमे अकारणाहारे ।
तह कारणाऽण(णा?)हारे इअ पायच्छित्तमक्खायं ।।१६७।। व्याख्या-यन्निर्दोषमप्याहारं भुआनः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मृष्टमहो ! सुसम्भृतमहो ! सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमगारम्, चरणेन्धनस्य प्रदीप्तरागाग्निना