________________
जइ - जीयकप्पो अइरतिरोछड्डिअए मीसेसु अतेसु मासलहुपणगा।
अइरतिरोछड्डिअए पणगं पत्तेअणंतबीएसु ।।१६४।। व्याख्या-मिश्रेषु सचित्ताऽचित्तरूपेषु पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु मध्ये अतिरस्तिरश्छर्दिते निरन्तरसान्तरछर्दिते मासलघुपञ्चके भवतः । प्रत्येकानन्तबीजविषये अतिरस्तिरश्छदित निरन्तरपरम्परोज्झिते पञ्चकं प्रायश्चित्तं भवति ।।१६४।।
सचित्तणंतकाये अणंतरपरंपरेण छड्डिअए ।
चउगुरुमासगुरु कमा मीसे गुरुमासपणगा य ।।१६५।। व्याख्या-सचित्ते सजीवेऽनन्तकाये कन्दादिरूपे विषये अनन्तरपरम्परेण छर्दित चतुर्गुरुमासगुरुकप्रायश्चित्ते क्रमाद् भवतः । मिश्रे पुनरनन्तकाये निरन्तरपरम्परछर्दिते गुरुमासपञ्चकाख्ये प्रायश्चित्ते स्याताम् ।। १६५।। अथ ग्रहणैषणादोषोपसंहारं कृत्वा ग्रासैषणादोषपञ्चकप्रायश्चित्तमाह
इअ एसणदोसाणं पायच्छित्तं निरूविअं इत्तो ।
संजोअणाइ चउगुरु अइपमाणम्मि चउलहुअं ।।१६६ ।। व्याख्या-इति उक्तप्रकारेण एषणादोषाणां ग्रहणैषणादोषाणां दशानां प्रायश्चित्तं विशुद्धिनिबन्धनं वस्तु निरूपितं प्रदर्शितम् । इत ऊर्ध्वं ग्रासैषणादोषपञ्चकप्रायश्चितं प्रदयत-तत्र पूर्व संयोजना । सा च द्विधा बाह्या अभ्यन्तरा च । तत्र वसतेर्बहिरेव भिक्षामटन् साधू रसगृद्ध्या दुग्धदध्योदनादीनां द्रव्याणामनुकूलद्रव्यैः सह संयोजनं रसविशेषोत्पादनाय यत् करोति सा बाह्या संयोजना । अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति । सा च त्रिधा-पात्रे कवले वदने च । तत्र यद् द्रव्यं यस्य द्रव्यस्य रसविशेषाधायि तत् तेन सह पात्रे रसगृद्ध्या संयोजयति । यथा सुकुमारिकादिकं खण्डादिना सह । एषा पात्रेऽभ्यन्तरा संयोजना । यदा तु हस्तगतमेव कवलतयोत्पाटितं सुकुमारिकादि चूर्णं खण्डादिना सह संयोजयति तदा कवले । यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा-मण्डकादिकं पूर्व प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा मुखे । रसगृङ्ख्या च बाह्यद्रव्याणां संयोजनां कुर्वन् आत्मनो ज्ञानावरणीयादिकर्मपुद्गलसमूहैः सह संयोजनां करोतीति निषिद्धा संयोजना । वर्द्धिष्णुघृतादिनिगमनार्थं तु संयोगोऽनुज्ञातः तीर्थकृतादिभिः । वर्धिष्णु हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते, प्रायस्तृप्तत्वात् । न च परिष्ठापनं युक्तम् , घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि कीटिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् । ततो वर्द्धिष्णुघृतादिनिगमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय । एवं ग्लानाद्यर्थमपि संयोजना न दुष्टा । यदाह