________________
जइ - जीयकप्पो यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तं बलाधानाय विकृतिपरिभोगः । तथा चोक्तं सूत्रे
अभिक्खणं निविगई गया य' इति । निर्विकृतिपरिभोगे च तक्रायेवोपयोगीति तक्रादिग्रहणं कट्टरादिषु घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यं विकल्पनीयं ग्लानत्वादिप्रयोजनोत्पत्तो कार्यम्, न शेषकालमिति भावः। तेषां बहुलेपत्वात् गृङ्यादिजनकत्वाच्च । अथ किं तत् त्रिकम् ? इति उच्यते-आहार उपधिः शय्या । एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति । तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यत । तत्राऽभ्यन्तरो भोजनवशात्, बाह्यः शय्योपधिवशात् । एतान्येवाऽऽहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राऽऽहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहढेलालगनात् । उपधेरेकमेव वारं वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन । तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः। तस्माच्चाऽग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते । ततस्तक्रादिग्रहणं साधूनामनुज्ञातम्, तक्रादिनापि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वभावत्वात् । एतत्सर्वं प्रासङ्गिकम् । प्रस्तुतं तु लिप्तम् । तत्र च दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्रं संसृष्टमसंसृष्टं वा, द्रव्यमपि सावशेषं निरवशेषं वा । एतेषां च त्रयाणां पदानां परस्परं संयोगतोऽष्टौ भङ्गा भवन्ति । ते चामी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् १, संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यम् २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् ३, संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् ४, असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् ५, असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यम् ६, असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् ७, असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् ८। एतेषु चाष्टसु भङ्गेषु मध्ये विषमेषु-प्रथमतृतीयपञ्चमसप्तमेषु भङ्गेषु कल्पते, सावशेषद्रव्ये सति पश्चात्कर्मासम्भवात् । समेषु पुनर्न कल्पते, निरवशेषद्रव्ये सति अवश्यं पश्चात्कर्मसम्भवात् । इह च लिप्ते लिप्तदोषे दध्यादिलिप्तकरमात्ररूपे चतुर्लघुकं लभते मुनिः । अथ छर्दितम् उज्झितं त्यक्तमित्यर्थः । तच्चेह द्विधा पृथिव्यादिषु अनन्तरपरम्परमिति । यदशनादौ दात्र्या दीयमाने पृथिव्यादिषु षड्जीवनिकायेषु परिशाटिर्निरन्तरं पतति तदनन्तरछर्दितम् , यत् पुनः सान्तरं निपतति तत् परम्परछर्दितम् । छर्दितग्रहणे च षड्जीवनिकायविराधनादयोऽनेके दोषाः सम्भवन्ति । तत्र च मधुबिन्दूदाहरणं तच्च प्रसिद्धमेव ।।१६२ ।। अथाऽनन्तरपरम्परछर्दितप्रायश्चित्तमाह
छड्डिअसचित्तभूदगसिहिपवणपरित्तवणस्सइतसेसु ।
चउलहु अ मासलहुआ अणंतरपरंपरेसु कमा ।।१६३ ।। व्याख्या-सचित्तेषु पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु मध्येऽनन्तरछर्दिते परम्परछदित क्रमाच्चतुर्लघुमासलघुको स्याताम् ।।१६३।।