________________
जइ - जीयकप्पो चउलहुअं लहइ मुणी लित्ते दहिमाइलित्तकरमत्ते ।
छड्डिअमिह पुढवाइसु अणंतरपरंपरति दुहा ।।१६२।। व्याख्या-इह दधिक्षीरघृततैलतीमनप्रभृतिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते । तच्च कारणं विना न ग्राह्यम् । यदाहघित्तव्यमलेवकडं लेवकडमाहु पच्छकम्माई । न य रसगेहिपसंगो न य भुत्ते बंभपीडा य' ।। इह साधुना सदैवाऽलेपकृद् वल्लचणककुल्माषशुष्कोदनादि ग्रहीतव्यम्, मा भूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दोषा दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवाऽलेपकृद्ग्रहणे रसगृद्धिप्रसङ्गो रसाऽभ्यवहारलाम्पट्यवृद्धिः। न च तादृशे भुक्ते ब्रह्मपीडा ब्रह्मव्रतस्य बाधा, तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राह नोदको-ननु यदि लेपकृद्ग्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततः तन्न गृह्यते, तर्हि मा कदाचनापि साधुर्भुङ्क्ताम् । एवं हि सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह-सर्वकालं क्षपणमेव कुर्वतः साधोचिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवं क्षपणं न कार्यम् । पुनः प्राह-यदि सर्वकालं क्षपणं कर्तुमशक्तः तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम्। गुरुराह-यद्येवं तपः कुर्वन् संयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा । पुनरप्याहयदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु । एवमेकैकदिनहान्या तावदात्मानं तोलयेत् यावच्चतुर्थं कृत्वा आचाम्लेन पारणकं करोतु । एवमप्यसामर्थे दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपम् । गुरुराह-करोत्वेवं तपः यदि प्रत्युपेक्षणादिसंयमयोगभंशो न भवति । केवलं सम्प्रति सेवार्त्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्राः कोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः तेऽपि च सेवार्त्तसंहननाः । ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेवं यापनीयं प्रभूतगुणसम्भवात् । गुरुराहतिअ सीअं समणाणं तिअमुण्ह गिहीण तेणणुन्नायं । तक्काइणं गहणं कट्टरमाइसु भइअव्व' ।। त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाऽजीर्णादयो दोषाः प्रादुःष्यन्ति । तदेव त्रिकमुष्णं गृहिणां, तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकभावतो नाजीर्णादिदोषा जायन्ते । ततः तेषां तथा यापयतामपि न कश्चिद् दोषः । साधूनां तूक्तनीत्या दोषः । तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवाऽऽत्मशरीरं