________________
- जीयकप्पो
जइ -
चउगुरु सचित्तअणंतमीसिए मिस्सेणं तु उम्मीसे ।
मासगुरु दुविहं पुण अपरिणयं दव्वभावेहिं । । १५८ ।। व्याख्या - सचित्तानन्तमिश्रिते सचित्तेनाऽनन्तकायेन मिश्रिते आहारे गृहीते चतुर्गुरु । मिश्रेणानन्तकायेनोन्मिश्रे मासगुरु । अथाऽपरिणते दोषस्वरूपं दर्शयति अपरिणतं पुनर्द्विविधं द्रव्यभावाभ्यां द्रव्यापरिणतं भावापरिणतं चेतिभावः । द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतम् अप्रासुकं भवति । भावोऽध्यवसायः । स च द्वयोः स्वामिनो मध्यादेकस्यापरिणतो दानेऽनभिमुखोऽथवा भिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निर्दोषमित्यध्यवसायः, द्वितीयस्य तु न तथाऽध्यवसायः ।। १५८ ।।
ततो भावेन दातृसत्केन गृहीतृसत्केन वा अपरिणतं भावापरिणतं द्विविधेऽप्यपरिणते प्रायश्चित्तमाह— ओहेण दव्वभावापरिणयभेएसु दुसुवि चउलहुअं ।
दव्वापरिणमिए पुण जं नाणत्तं तयं सुणह ।। १५९ ।।
व्याख्या- द्रव्यभावापरिणत भेदयोर्द्वयोरपि ओघेन चतुर्लघुकं द्रव्यापरिणते भावापरिणतेऽप्याहारे गृहीते सामान्येन चतुर्लघुकं प्रायश्चित्तं भवतीति भावः । द्रव्यापरिणते पुनर्यन्नानात्वं विशेषः तकत् तत् शृणुत निशमयत यूयमिति शिष्यान् सावधानीकृत्य ।। १५९ ।। तदेव नानात्वमाह
अपरिणमंत छकाए चउलहु पणगं च बीअअपरिणए । मीसछकायापरिणय दोसे लहुमास माहंसु ।। १६० ।। व्याख्या- अपरिणमन्तोऽचित्तपरिणाममव्रजन्तोऽप्रासुका इत्यर्थः । एवंविधा ये षट्कायाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसकायरूपाः, तेषु षट्कायेष्वपरिणतेषु यथासम्भवं गृहीतेषु चतुर्लघु । बीजापरिणते अपरिणतानिअप्रासुकानि यानि प्रत्येकानन्तवनस्पतिबीजानि तेषां ग्रहणे पञ्चकं प्रथमप्रायश्चित्तमित्यर्थः । मिश्रषट्कायापरिणतदोषे । मिश्राः सचित्ताऽचित्तरूपा ये षट्कायाः पृथिव्यादयः तानाश्रित्यापरिणतदोषे अप्रासुकीभूतमिश्रषट्कायग्रहणे इत्यर्थः । लघुमासं प्रायश्चित्तमुक्तवन्तः तीर्थकरगणधराः ।। १६०।। सचित्तणंतकाए अपरिणए चउगुरुं मुणेअळं ।
मीसाणंतपरिणए गुरुमासो भासिओ गुरुणा । । १६१।।
व्याख्या - सचित्तः सजीवो योऽनन्तकायः तस्मिन्नपरिणते अप्रासुके गृहीते चतुर्गुरु प्रायश्चित्तं मुणितव्यं ज्ञातव्यम् । मिश्रः सचित्ताचित्तरूपो योऽनन्तकायः तस्मिन्नपरिणते गृहीते गुरुमासो भाषितः प्रतिपादितो गुरुणा जगद्गुरुणा जिनेन इति ।। १६१ । । अपरिणतदोषप्रायश्चित्तमभिधाय लिप्तदोषप्रायश्चित्तमाह