________________
इ-जीयकप्पो
लहुमासाई चउगुरुअंतं विगलेसु तह अणंतवणे ।
पंचिंदिसु गुरुमासाइ जाव कल्लाणगं एगं । । १५५ । । व्याख्या - विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां तथा अनन्तवनस्य अनन्तकायवनस्पतेः सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् चेत् कुर्वती दात्री भिक्षां ददाति तदा गृह्णानस्य साधोर्लघुमासादि चतुर्गुर्वन्तं प्रायश्चित्तं क्रमेण भवति । सङ्घट्टे लघुमासः । अगाढपरितापे गुरुमासः । गाढपरितापे चतुर्लघु । उपद्रवे चतुर्गुरु स्यादित्यर्थः । तथा पञ्चेन्द्रियाणां सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् कुर्वत्या दात्र्याः सकाशाद् भिक्षां गृह्णतो गुरुमासादि यावत् कल्याणकमेकं प्रायश्चित्तं भवति । सङ्घट्टे गुरुमासः । अगाढपरितापे चतुर्लघु । गाढपरितापे चतुर्गुरु । उपद्रवे एकं कल्याणकमिति भावः । । १५५ । । अथाऽनेकद्वीन्द्रियाद्युपघातप्रायश्चित्तं स ( सा ? )माचारीगतगाथया दर्शयतिगाइदसं सुं गाइदसंतयं पच्छित्तं । तेण परं दसगं चिअ बहुए सुवि सगलविगलेसु । । १५६ ।।
व्याख्या- कयाचिद् दात्र्या साधोर्भिक्षां ददत्या प्रमादवशेन एकादयो दशान्ता द्वीन्द्रियादयो - द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया व्यापादिताः, ततस्तत्र भिक्षां गृह्णानस्य साधोरेकादिषु दशान्तेषु द्वीन्द्रियादिषूपहतेषु एकादिदशान्तं स्वप्रायश्चित्तं भवति । अयमर्थः यद्यस्य द्वीन्द्रियादेरुपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति तत्तस्य स्वप्रायश्चित्तमुच्यते । तच्चैकस्य द्वीन्द्रियादेरुपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोरुपघाते द्वे स्वप्रायश्चित्ते भवतः । त्रयाणामुपघाते त्रीणि तानि भवन्ति । यावद् दशानामुपघाते दश स्वप्रायश्चित्तानि स्युः । सेने' ति । पञ्चम्यर्थत्वात् तृतीयायाः । ततः परमेकादशादिषु बहुष्वपि यावदसङ्ख्येष्वपि सकलविकलेषु पञ्चेन्द्रियविकलेन्द्रियेषूपहतेषु दशकमेव दशैव स्वप्रायश्चित्तानि दातव्यानि भवन्तीति भावः ।। १५६ ।। एवं दायक दोषप्रायश्चित्तमुक्तम् । अथोन्मिश्रदोषप्रायश्चित्तमाह
पुढवाइजिउम्मीसे चउलहु पणगं तु बीअउम्मीसे ।
मिस्सपुढवाइमीसे मासलहुं पावए साहू ।। १५७ ।।
व्याख्या - इह साधूनां दानयोग्यमोदनादि, अयोग्यं तु सचित्तं फलादि, मिश्रम् आमपक्वपृथुकादि । अचित्तं च तुषादि । ते द्वे अपि वस्तुनी अनाभोगादिना मिश्रयित्वा गृहस्थो यद्ददाति तदुन्मिश्रम् । तत्र सचित्तेन मिश्रेण वा वस्तुना मिश्रीकृत्य यद्देयद्रव्यं ददाति तन्न कल्पते । अचित्तवस्तुमिश्रितदेयद्रव्ये तु भजना । सचित्तोन्मिश्रे मिश्रोन्मिश्रे च प्रायश्चित्तमिदम् - पृथिव्यादिजीवोन्मिश्रे । पृथिव्यादयः पृथिवीकायादयः, आदिशब्दादप्तेजोवायुप्रत्येकवनस्पतित्रसा गृह्यन्ते । एवंविधा ये जीवाः तैरुन्मिश्रे एकत्र मीलिते देयद्रव्ये गृहीते चतुर्लघु प्रायश्चित्तं प्राप्नोति साधुः । बीजोन्मिश्रे तु प्रत्येकानन्तबीजोन्मिश्रे पुनः पञ्चकम् आद्यप्रायश्चित्तम् । मिश्रपृथिव्यादिमिश्रे । मिश्रैः सचित्ताऽचित्तरूपैः पृथिव्यादिभिर्मिश्रिते आहारे गृहीते मासलघु प्रायश्चित्तं प्राप्नोति साधुः ।। १५७।।