________________
जइ - जीयकप्पो दितेसु एसु चउलहु चउगुरु पगलंत पाउआरूढे ।
कत्तइ लोढइ पिंजइ विक्खिणइ मद्दए अ मासलहु ।।१५२।। व्याख्या-एतेषु सप्तविंशतिसङ्ख्येषु दायकेषु भिक्षां ददत्सु गृहीतुः साधोश्चतुर्लघु प्रायश्चित्तं भवति । तथा प्रगलन् गलत्कुष्ठः, ततो भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रान्तिः स्यात् । तदीयोच्छवासत्वक्संस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिभिः शरीरान्तरे तत् सङ्क्रमणस्याभिहितत्वात् ततो न ग्राह्या । तथा पादुकारूढः काष्ठादिमयोपानत्समारूढः । स हि भिक्षां प्रयच्छन् दुर्व्यवस्थित्वात् कदाचित् पतति, कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते । अनयोदयिकयोभिक्षां ददानयोर्गृह्णानस्य साधोश्चतुर्गुरु प्रायश्चित्तं स्यात् । तथा या कर्त्तयति रूतं सच्चक्रेण सूत्रं करोति । तथा लोढयति कार्पासं लोढिन्यां कनकेन निरस्थिकं करोतीत्यर्थः । तथा पिञ्जयति रूतं पिअनेन मृदूकरोति । तथा विक्खिणइ' ति । विकीर्णयति रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति । एताभिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसङ्घट्टनदेयवस्तुखरण्टितहस्तधावनदोषसम्भवात् । एताभ्यश्चतसृभ्यो दायिकाभ्यः सकाशाद् भिक्षाग्रहणे मईक च प्रमर्दनप्रवृते दातरि च मासलघु प्रायश्चित्तं भवति । अथ षट्कायान् विराधयन्ती या दात्री ददाति ।।१५२ ।। तद्विषयं प्रायश्चित्तमाह
छक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव ।
' घट्टती गाहंती आरंभंती अ सट्ठाणं ।।१५३ ।। व्याख्या-षट्कायव्यग्रहस्ता षट्काययुक्तहस्ता । इह षट्कायव्यग्रहस्ता सा उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो दृतिकः फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते । ततः सा श्रमणार्थं श्रमणभिक्षादानार्थमुत्थाय षट्कायान् भूम्यादौ निक्षिप्य पुनस्तानेव घट्टयन्ती तत् सङ्घट्ट कुर्वाणा । तानेव गाहमाना विलोडनेन इतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती । तानेव आरभमाणा च षट्कायोपद्रवकरमारम्भं कुर्वाणा खननमर्दनादिना पृथ्वीकायं मज्जनवस्त्रधावनादिनाऽप्कायं उल्मुकघट्टनादिनाऽग्निं अग्न्यादेः फूत्करणादिना मारुतं फलादेः कर्त्तनादिना वनस्पतिं स्फुरन्मत्स्यादिछेदनादिना त्रसकायं च विराधयन्तीत्यर्थः । एवंविधा दात्री यदि ददाति, ततो गृहीतुः साधोः स्वस्थानं प्रायश्चित्तं भवति । अयमभिप्रायो-जीतकल्पेऽस्यापराधस्य यत् प्रायश्चित्तमुक्तमस्ति तत् तस्य स्वस्थानम् ।।१५३ ।। एतदेव स्वस्थानप्रायश्चित्तं गाथायुगलेन व्यक्तमेव दर्शयति
भूजलसिहिपवणपरित्तघट्टणागाढगाढपरिआवे ।
उद्दवणे वि अ कमसो पणगं लहु गुरु अमास चउलहुआ ।।१५४।। व्याख्या-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् कुर्वाणा यदि दात्री ददाति तदा क्रमशः क्रमेण साधोरिदं प्रायश्चित्तं भवति । यथा-सङ्घट्टे पञ्चकम् । अगाढपरितापे लघुमासः । गाढपरितापे गुरुमासः । उपद्रवे चतुर्लघुकाः ।। १५४।। A. गलत्कुष्ठपादुकारुढयोः। B. शलाकया ।