________________
इ-जीयकप्पो
नवममासे तु न गृह्णन्ति निषदनोत्थानाभ्यां गर्भपीडासम्भवात् १२ । निगडेन लोहमयपादबन्धनेन बद्धः अण्डुकेन काष्ठमयकरबन्धनेन बद्धः । एताभ्यां सकाशात् परितापनादिदोषसम्भवाद् भिक्षा न ग्राह्या १३-१४। बालवत्सा स्तन्योपजीविशिशुका । तया दीयमानं न कल्पते, निक्षिप्तबालस्य मार्जारादिभ्यो विनाशसम्भवात् । निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवात् १५ । अग्रेतनगाथास्थितो याशब्दोऽत्र प्रत्येकमभिसम्बध्यते । ततश्च या काचिन्महिला खण्डयति उदूखलक्षिप्तानि शाल्यादिबीजानि मुसलघातैः श्लक्ष्णीकरोतीत्यर्थः । तया दीयमाना भिक्षा न ग्राह्या । बीजसङ्घट्टनाद्यारम्भसम्भवात् १६ । तथा पिनष्टि शिलायां तिलामलककुस्तुम्बुरुलवणजीरकादि मृद्नातीति भावः । अनयापि दीयमानं न कल्पते, तिलादिसङ्घट्टनसद्भावात् १७। तथा भृज्जति चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः । तया दीयमानं न कल्पते, कडिल्लकादिप्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात् १८ । तथा जेमति भुङ्क्तेऽभ्यवहरतीत्यर्थः । भुआना हि आचमनं विधाय यदि साधुभ्यो दद्यात् तदाऽप्कायविराधना । अथैतद्दोषभयात्तदकृत्वैव वितरेत् तदोच्छिष्टमप्येते न त्यजन्तीत्यादिजनाऽपवादः स्यात् । तत्र च महान् दोषः । यदाह —
छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे निहारे दुगुछिए पिंडगहणे वि' ।। (ओ० नि०४४३) इत्यतो न कल्पते १९ । तथा विरोलयति करमन्थानादिना दध्यादिकं मथ्नाति । सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते २० । तथा दलति सजीवं सचित्तं गोधूमादिधान्यं घरट्टेन पिनष्टि । इयं हि भिक्षादानायोत्तिष्ठन्ती बीजानि सङ्घट्टयति, दत्त्वा च करौ प्रक्षालयतीति न गृह्यते २१ । तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति तया दीयमाना भिक्षा न कल्पते, प्रवर्त्तनादिदोषसम्भवात् २२ । तथा उद्वर्त्तयति साधुदानबुद्ध्या परावर्तयति पिठरादि स्थाल्यादि नमयतीत्यर्थः । अत्र च कीटिकादिसत्त्वोपघातः स्यात् २३ । तथा त्रिधा ऊर्ध्वाऽधस्तिर्यग्लक्षणैस्त्रिभिः प्रकारैः सप्रत्यपायकोष्ठकण्टकगवादिभ्यः सकाशात् सम्भाव्यमानाभिघाताद्यनर्था या काचिद् वनिता स्यात् । सहा सपच्चवाया जा' इति पाठे तु तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादिर्वा, तया दीयमानं न कल्पते २४ । तथा साधारणं बह्वायत्तं तद्ददातीति योगः । तत्र साधारणानिसृष्टवद्दोषा वाच्याः २५ । तथा चोरितकं चौरिकया गृहीतं साधुभ्यो ददाति । तत्र च दोषाः प्रतीता एव २६ । तथा पाराक्यं परसत्कं परकीयमिदमित्युक्त्वा ददाति । अथवा परार्थं परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थः । तद्ददाति । अत्र च परसत्के तत् स्वामिनाऽननुज्ञाते परदानाय कल्पिते च दीयमाने अदत्तादानान्तरायादयो दोषाः २७ ।।१५०-१५१।। अथैतेषु दायकेषु ददानेषु भिक्षां गृह्णानस्य साधोः प्रायश्चित्तमाह