________________
इ-जीयकप्पो
व्याख्या - अनन्तेषु अनन्तकायरूपेषु कन्दादिषु सचित्तेषु सजीवेषु अनन्तरपरम्परसंहृते क्रमाच्चतुर्गुरुमासगुरुके । अनन्तरसंहृते चतुर्गुरु, परम्परसंहते मासगुरु । मिश्रेषु सचित्ताऽचित्तरूपेषु पुनरनन्तकायेषु अनन्तरपरम्परसंहृते क्रमान्मासगुरुपञ्चके स्याताम् ।।१४८।।
चउगुरु अचित्तगुरुसाहरिए अह दायत्ति थेराई । थेरपहुपंडवेविर जरि अंधऽव्वत्त मत्त उम्मत्ते ।। १४९।।
व्याख्या - अचित्ते निर्जीव गुरुणि बहुभारे शिलापुत्रकादिद्रव्ये दर्वीकरोटिकादेरुपरिभागात् संहृते अथवा देयवस्तुभाजनस्योपरिभागान्महति भाजने अचित्तबहुभारे संहते उत्पाट्याऽन्यत्र स्थापिते चतुर्गुरु । एवं सचित्ताऽचित्तमिश्रविषयसंहृतदोषप्रायश्चित्तमभिहितम् । अथ एतदनन्तरं दायक: स्थविरादिरित्येवंविधो दोषः स्थविरादिभिर्द्दयमाने दायकदोषो भवेदित्यर्थः । अतस्तेषां स्थविरादीनां नामग्राहं प्रतिपादनार्थमाह- थेरबहुपंडवेविरे' त्यादि । स्थविरो वृद्धः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वा उपरिवर्त्ती । स्थविरस्य च हस्तेन भिक्षाग्रहणे निपतन् षड्जीवनिकायविराधनादिदोषा भवेयुः । अतस्तद्धस्तेन उत्सर्गतो न गृह्यते १ । तथा अप्रभुः दीयमानभक्तादेः अस्वामी भृतकादिस्तेन दीयमाने प्रभोरप्रीतिः स्यात् २ । पण्डः पण्डको नपुंसकस्तस्मिन् दायके लोकापवादशङ्कादिदोषाः ३ । वेपमानः कम्पमानशरीरः, तद्दाने परिशाटनभाजन भङ्गादिदोषाः ४ । ज्वरितो ज्वररोगपीडितः, ततो भिक्षाग्रहणे ज्वरसङ्क्रमणजनापवादादयो दोषाः ५ । अन्धः चक्षुर्विकलः, तस्य हि भिक्षां ददतः कायवधस्खलनपतनभाजनबहिर्भक्तक्षेपणजनवचनीयतादयो दोषाः ६ । अव्यक्तो बालो, जन्मतो वर्षाष्टकाभ्यन्तरवर्ती, तेन दीयमाने तज्जनन्यादेः प्रद्वेषः ७ । मत्तः पीतमदिरादिः, स चाशुचित्वाऽऽलिङ्गनहननभाजनभङ्गकरणादिदोषदुष्टत्वात् साधुभिक्षादानाऽयोग्यः ८। उन्मत्तो दृप्तो सोऽपि मत्तवद् दुष्टः ९ । ।१४९ । । तथा
ग्रहगृहीतो वा,
छिन्नकरचरणगुब्बिणिनिअलंडु अबद्धबालवच्छाए ।
खंडइ पीसइ भुंजइ जिमइ विरोलइ दलइ सजिअं । । १५० ।। ठवइ बलिं उवउत्तइ पिढराइ तिहा सपच्चवाया जा ।
साहारणचोरिअगं देइ परक्कं परट्टं वा ।। १५१ ।।
व्याख्या - छिन्नकरः कर्त्तितहस्तः छिन्नचरणो लूनपादः, एताभ्यां च सकाशात् भिक्षा न ग्राह्या, दानाऽसमर्थत्वाल्लोकापवादादिदोषसम्भवाच्च १० - ११ । गुर्विणी आपन्नसत्त्वा, तत्सकाशाद् गच्छनिर्गता जिनकल्पिकादयः प्रथमदिनादारभ्य भिक्षा न गृह्णन्त्येव । स्थविरकल्पिकास्त्वष्टौ मासान् यावत् गृह्णन्ति,