________________
जइ - जीयकप्पो साहरिअ सजिअ-भूदगसिहिपवणपरित्तवणस्सइतसेसु ।
चउलहुअमासलहुआ अणंतरपरंपरेसु कमा ।।१४६।। व्याख्या-इह येन हस्तेन मात्रकेण वा कृत्वा दात्री साधोरशनादिकं दातुमिच्छति, तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति, ततस्तदन्यत्र भूम्यादौ सचित्ते, अचित्ते, मिश्रे वा क्षिप्त्वा तेन हस्तेन मात्रकेण वा यद्ददाति तत् संहृतम् । अत्र सचित्ताचित्तमिश्रपदैस्तिस्रश्चतुर्भङ्ग्यो भवन्ति । तथाहि-एका चतुर्भङ्गी सचित्तमिश्रपदाभ्याम् , द्वितीया सचित्ताचित्तपदाभ्याम् , तृतीया मिश्राचित्तपदाभ्याम् । तत्र सचित्ते सचित्तं संहृतम् , मिश्रे सचित्तम् , सचित्ते मिश्रम् , मिश्रे मिश्रमिति प्रथमा चतुर्भङ्गी । तथा सचित्ते सचित्तं संहृतम्, अचित्ते सचित्तम् , सचित्ते अचित्तम् , अचित्ते अचित्तमिति द्वितीया । तथा मिश्रे मिश्रं संहृतम् , अचित्ते मिश्रम् , मिश्रे अचित्तम् , अचिते अचित्तमिति तृतीया । अत्र प्रथमचतुर्भङ्ग्याः सर्वेष्वपि भङ्गेषु न कल्पते । द्वितीयतृतीयचतुर्भङ्ग्योस्त्वाद्येषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः । चरमे भजना । अत्र च सचित्तः पृथ्वीकायः सचित्ते पृथ्वीकाये संहृतः, सचित्ताऽप्काये वा संहृत इत्यादि षड्जीवनिकायचारणिकया स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भने षट्त्रिंशत् षट्त्रिंशद् भङ्गा भवन्ति । सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानाम् । एते च सर्वेऽपि भङ्गा नैरन्तर्येण पारम्पर्येण वा भवन्ति । तत्र चैतेषु सर्वेष्वपि निरन्तरपरम्परसंहृतभङ्गेषु यत्र सचित्तसङ्घट्टनादिदोषः स्यात् तत्र न कल्पते । एतत् सर्वं निक्षिप्ते पिहितेऽपि स्वयमवगन्तव्यम् । अथैतेषु निरन्तरपरम्परसंहृतसर्वभङ्गेषु प्रायश्चित्तं प्रदर्श्यते । सजीवाः सचित्ता ये भूदकशिखिपवनपरीत्तवनस्पतित्रसाः पृथ्वीकायाऽप्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायास्तेषु अनन्तरपरम्परेषु संहत्याऽन्यद्वस्तु क्षिप्त्वाऽशनादिके दीयमाने गृहीते क्रमाच्चतुर्लघुकमासलघुके । अनन्तरसंहृते चतुर्लघुकं परम्परसंहते मासलघुकं भवतीत्यर्थः ।। १४६ ।।
अइरतिरोसाहरिए मीसेसु तेसु मासलहुपणगा।
अइरतिरोसाहरिए पणगं पत्तेअणंतबीएसु ।।१४७।। व्याख्या-तेषु पृथ्वीकायादिषु पूर्वोक्तेषु मिश्रेषु सचित्ताऽचित्तरूपेषु अतिरस्तिरःसंहृते अनन्तरपरम्परसंहते क्रमेण मासलघुपञ्चके । प्रत्येकानन्तबीजेषु प्रत्येकसाधारणवनस्पतिबीजेषु अतिरस्तिरःसंहते अनन्तरपरम्परसंहृते पञ्चकम् ।।१४७।।
सच्चित्तअणतेसु अणंतरपरंपरम्मि साहरिए । चउगुरुमासगुरु कमा मीसेसु मासगुरुपणगा ।।१४८।।