________________
जइ - जीयकप्पो सचित्तणंतकाए अणंतरपरंपरेण निक्खित्ते ।
चउगुरु मासगुरु कमा मीसे गुरुमास पणगा य ।।१४१।। व्याख्या-सचित्तेऽनन्तकाये अनन्तरपरम्परेण निक्षिप्ते निरन्तरनिक्षिप्ते सान्तरनिक्षिप्ते क्रमाच्चतुर्गुरु मासगुरु भवति । मिश्रे पुनरनन्तकाये निरन्तरनिक्षिप्ते गुरुमासः । सान्तरनिक्षिप्ते तु पञ्चकं गुरुकं स्यात् ।। १४१।। अथ पिहितं त्रिधा स्यात् तदेव दर्शयति
तह गुरुअचित्तपिहिअं सचित्तपिहिअं च मीसपिहिअं च ।
पिहिअं तिहा अभिहिअं चउगुरुमचित्तगुरुपिहिए ।।१४२।। व्याख्या तथा पिहितं देयमशनादि वस्तु यत् केनाऽप्यपरेण वस्तुना स्थगितं भवति तत् पिहितं त्रिधाऽभिहितं जिनैः । गुर्वचित्तपिहितं सचित्तपिहितं मित्रपिहितं च । तत्र गुरुणा महाभारेणाऽचित्तेन पाषाणखण्डादिना यद्देयवस्तु भाजनादि पिहितं स्यात् तद्गुर्वचित्तपिहितम् । सचित्तेन पृथिवीकायादिना पिहितं सचित्तपिहितम् । मिश्रेण पृथ्वीकायादिना पिहितं मिश्रपिहितम् । तत्राऽचित्तगुरुद्रव्यपिहिते चतुर्गुरु ।। १४२ ।।
पिहिए सचित्तभूदगसिहिपवणपरित्तवणस्सइतसेहिं ।
चउलहुअमासलहुआ अणंतरपरंपरेहिं कमा ।।१४३ ।। व्याख्या-सचित्तभूदकशिखिपवनपरीत्तवनस्पतित्रसैः सचित्तैः पृथ्वीकायाऽप्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायैः पिहिते अनन्तरपरम्पराभ्यां स्थगिते क्रमाच्चतुर्लघुकमासलघुके एतैर्निरन्तरपिहिते चतुर्लघु । सान्तरपिहिते लघुमास इत्यर्थः ।।१४३ ।।
अइरपरंपरपिहिए मीसेहिं तेहिं मासलहुपणगा।
अइरपरंपरपिहिए पणगं पत्तेअणंतबीएहि ।।१४४।। व्याख्या-तैः पृथीकायादिभिर्मित्रैः सचित्ताऽचित्तरूपैरतिरःपरम्परपिहिते निरन्तरसान्तरपिहिते निरन्तरपिहिते मासलघु । सान्तरपिहिते पञ्चकम् । प्रत्येकानन्तबीजैरतिरःपरम्परपिहिते-निरन्तरसान्तरपिहिते पञ्चकम् ।। १४४।।
सचित्तअणतेणं अणंतरपरंपरम्मि पिहिअम्मि ।
चउगुरु मासगुरु कमा मीसेणं मासगुरुपणगा ।।१४५।। व्याख्या-सचित्तेनानन्तेन अनन्तकायेनानन्तरपरम्परपिहिते क्रमाच्चतुर्गुरु मासगुरु । निरन्तरपिहिते चतुर्गुरु । सान्तरपिहिते गुरुमास इत्यर्थः । मिश्रेण सचित्ताऽचित्तरूपेणानन्तकायेनानन्तरपरम्परपिहिते क्रमान्मासगुरुपञ्चके ।।१४५।। अथ संहतदोषप्रायश्चित्तमाह