________________
___ जइ - जीयकप्पो तेजःकायादिभिः प्रक्षितं न सम्भवति, लोके तथा प्रतीत्यभावात् ।। १३६।। एवं त्रिविधस्यापि सचित्तम्रक्षितस्य सप्रभेदस्य प्रायश्चित्तमभिहितम् । अथाचित्तमृक्षितस्य तदाह
गरहिअइअरेहिं अचित्तमक्खिअं दुविहमाहु साहुवरा ।
गरहिअअचित्तमक्खिअ-दोसेण लहइ चउलहुअं ।।१३७।। व्याख्या-गर्हिततरैः गर्हितागर्हितैरचित्तम्रक्षितं द्विविधमाहुः साधुवरा जिनाः । तत्र गर्हितः मांसवसाशोणितसुरामूत्रोच्चारादिभिः शिष्टजनस्याऽभक्ष्याऽपेयैर्मक्षितं गर्हिताचित्तमृक्षितं तेन गर्हिताचित्तमक्षितदोषेण चतुर्लधुकं लभते साधुः ।।१३७।।
अगरहिसंसत्त-अचित्तमक्खिअम्मि वि लहेइ चउलहुअं।
निक्खित्तं पुढवाइसु अणंतरपरंपरं ति दुहा ।।१३८।। व्याख्या-संसजन्ति विलगन्ति सलेपत्वात् कीटिकामक्षिकादयो जन्तवो येषु तानि संसक्तानि, तैरगर्हितैरचित्तैमक्षितम् अगर्हितसंसक्ताचित्तमक्षितं तस्मिन्नगर्हितसंसक्ताचित्तम्रक्षितेऽपि चतुर्लधुकं लभते यतिः । इत्युक्तं मेक्षितदोषप्रायश्चित्तम् । अथ निक्षिप्तदोषप्रायश्चित्ताभिधित्सया तत्स्वरूपं दर्शयत्युत्तरार्द्धन-निक्षिप्तं पृथिव्यादिषु स्थापितं द्विधा अनन्तरपरम्परमिति । देयं वस्तु पृथिव्यादिषु निरन्तरं सान्तरं वा स्थापितं भवतीति द्विधा निक्षिप्तमित्यर्थः ।।१३८।। एतत्प्रायश्चित्तमाह
ठविए सचित्त भूदगसिहिपवणपरित्तवणस्सइतसेसु ।
चउलहु अ मासलहुआ अणंतरपरंपरेसु कमा ।।१३९।। व्याख्या-सचित्तभूदकशिखिपवनपरीत्तवनस्पतित्रसेषु सचित्तपृथ्वीकायाऽप्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायेषु अनन्तरम् अव्यवधानेन परम्परं व्यवधानेन स्थापिते निक्षिप्ते देयेऽशनाद्याहारे गृहीते क्रमात् प्रायश्चित्तं चतुर्लघुकमासलधुको। अनन्तरनिक्षिप्ते चतुर्लघु, परम्परनिक्षिप्ते लघुमास इत्यर्थः।।१३९।।
अइरपरंपरठविए मीसेसु तेसु मासलहुपणगा।
अइरपरंपरठविए पणगं पत्तेअणंतबीएसु ।।१४०।। व्याख्या-तेषु पृथ्वीकायाऽप्कायतेजःकायवायुकायप्रत्येकवनस्पतिकायत्रसकायेषु मिश्रेषु सचित्ताचित्तरूपेषु । अतिरःपरम्परस्थापिते तिरो व्यवधाने, न तिरोऽतिरोऽव्यवधानम् अनन्तरमित्यर्थः । अतिरोऽव्यवधानेन स्थापिते मासलघु । परम्परेण व्यवधानेन स्थापिते पञ्चकं क्रमादवगन्तव्यम् । प्रत्येकानन्तबीजेषु प्रत्येकवनस्पतिकायबीजेषु अनन्तवनस्पतिकायबीजेषु अतिरःपरम्परस्थापिते निरन्तरं सान्तरं स्थापिते पञ्चकम् । प्रत्येकबीजेषु अनन्तरपरम्परस्थापिते पञ्चकं लघु । अनन्तबीजेषु निरन्तरपरम्परस्थापिते पञ्चकं गुरु स्यादित्यर्थः । एवमन्यत्राऽप्यनन्तकाये पञ्चकं गुरुकं ज्ञातव्यम् ।। १४०।।