________________
जइ-जीयकप्पो व्याख्या-सचित्तम्रक्षितं त्रिविधं ब्रुवते भूदकवनम्रक्षितमिति अनेन प्रकारेण पृथ्वीकायमूक्षितम् अप्कायमृक्षितं वनस्पतिकायम्रक्षितं चेत्यर्थः । तत्र पृथिवीम्रक्षितमित्थमनेन वक्ष्यमाणप्रकारेण चतुर्विधं ब्रुवन्ति गीतार्थाः समयविदः ।।। १३२।। एतदेव व्याख्यानयति
ससरक्खमक्खिरं तह सेडिअकासाइमक्खिअं चेव ।
निम्मीसमीसकद्दममक्खिमिअ पुढविमक्खिअं चउहा ।।१३३ ।। व्याख्या-सरजस्कं सचित्तपृथिवीरजोऽवगुण्ठितं देयमात्रकहस्तादि तच्च तत् मेक्षितं च सरजस्कम्रक्षितम् । तथा सेटिकाकाषादिम्रक्षितमेव ऊषमृत्तिकाहरितालहिङ्गलकमनःशिलाअनलवणगैरिकसेटिकातुवरिकादिपृथ्वीकायमेक्षितमित्यर्थः । निर्मिश्रोऽपरिणतः सचेतनः, मिश्रः सचित्ताऽचित्तरूपः, एवंविधो यः कर्दमस्तेन मेक्षितं निर्मिश्रकर्दमम्रक्षितं मिश्रकर्दमम्रक्षितं चेत्यर्थः । इति पृथिवीम्रक्षितचतुर्दा ।। १३३ ।। तत्र क्रमेण प्रायश्चित्तमाह
तत्थ कमेणं पणगं लहुमासो चउलहु अ मासलहु ।
दगमक्खिअं पि चउहा पच्छाकम्मं पुरेकम्मं ।।१३४।। व्याख्या-तत्र पृथिवीकायमृक्षिते चतुर्विधऽपि क्रमेणेदं प्रायश्चित्तम् । तद्यथा-सरजस्कम्रक्षिते पञ्चकम् । सेटिकादिपृथ्वीकायमक्षिते लघुमासः । निर्मिश्रकईमम्रक्षिते चतुर्लघु । मिश्रकर्दमम्रक्षिते मासलघु । दकमक्षितमपि अप्कायमृक्षितमपि चतुर्द्धा । तद्यथा-पुरःकर्म, पश्चात्कर्म, सस्निग्धम् , उदका च । तत्र दानात् पूर्वं हस्तमात्रकयोः क्षालने पुरःकर्म । दानानन्तरं क्षालने तु पश्चात्कर्म ।। १३४।।
ससिणिद्धं उदउल्लं चउलहु चउलहु अ पणग लहुमासा ।
वणमक्खिअं तु दुविहं पत्तेआणंतभेएण ।।१३५।। व्याख्या-सस्निग्धम् ईषल्लक्ष्यमाणजलखरण्टितं हस्तादि । उदका स्पष्टोपलभ्यमानजलसंसर्गम् । अत्र क्रमेण प्रायश्चित्तमिदम्-पुरःकर्मणि चतुर्लघु, पश्चात्कर्मणि चतुर्लघु, सस्निग्धे पञ्चकम्, उदकार्दै लघुमासः । वनस्पतिकायम्रक्षितं तु द्विविधं प्रत्येकानन्तभेदेन । प्रत्येकवनस्पतिकायमृक्षितमनन्तकायमृक्षितं च ।। १३५।। तत्र प्रत्येकमृक्षितं त्रिधा, तदेवाह
उक्कट्ठपिट्टकुक्कुसभेआ पत्तेअमक्खिअं तिविहं ।
तिविहे वि हु लहुमासो गुरुमासो गंतमक्खिअए ।।१३६ ।। व्याख्या-उत्कृष्टपिष्टकुक्कुसभेदात् प्रत्येकम्रक्षितं त्रिविधम् । तत्र उत्कृष्टं कलिङ्गाऽऽमवालुयादिफलादीनां श्लक्ष्णीकृतानि खण्डानि अम्लिकापत्रसमुदायो वा उदूखलखण्डितः । पिष्टम् आमतन्दुलक्षोदादि । कुक्कुसाः प्रतीताः । तैमक्षितं प्रत्येकवनस्पतिम्रक्षितम् । त्रिविधेऽपि प्रत्येकवनस्पतिम्रक्षिते लघुमासः । हुशब्दः पूरणे । कुट्टितानामनन्तकायानां पनसफलादीनां श्लक्ष्णखण्डैर्मक्षितमनन्तकायमक्षितं तस्मिन् गुरुमासः । शेषैस्तु