________________
जइ - जीयकप्पो पुदिपच्छासंथवमाहु दुहा पढममित्थ गुणथुणणे ।
मासलहु तत्थ बीअं संबंधे तत्थ चउलहुअं ।।१२९।। व्याख्या-संस्तवं द्विविधमाहुः-प्रथमं गुणस्तवने । द्वितीयं सम्बन्धे । एकैकमपि द्विधा पूर्वं पश्चाच्च । अयमर्थःसंस्तवो द्विविधः-श्लाघारूपः परिचयरूपश्च । तत्र श्लाघारूपो वचनसंस्तवः, परिचयरूपः सम्बन्धिसंस्तवः । एकैकोऽपि द्विधा-पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र पूर्वं यद्दातारं स्तुत्वा याचते, लब्धे वा पश्चात् स्तौति स पूर्वसंस्तवः पश्चात्संस्तवश्च श्लाघारूपः । सम्बन्धिसंस्तवो मात्रादिनात्रकयोजनं पूर्वसंस्तवः, श्वश्वादिसम्बन्धयोजनं पश्चात्संस्तवः । तत्र गुणस्तवनरूपसंस्तवे द्विविधेऽपि मासलघु । सम्बन्धिसंस्तवे द्विविधेऽपि चतुर्लघुकम् ।। १२९।।
विज्जामते चुन्ने जोगे चउसु वि लहेइ चउलहुअं।
मूलं च मूलकम्मे उपायणदोसपच्छित्तं ।।१३०।। व्याख्या-विद्या ससाधना स्त्रीदेवताऽधिष्ठिता च, मन्त्रोऽसाधनः पुंरूपदेवताधिष्ठितश्च, चूर्णमञ्जनादि, योगः पादप्रलेपादिः । तत्प्रयोगेण लब्धाः पिण्डा विद्यामन्त्रचूर्णयोगपिण्डाः । एतेषु चतुर्वपि पिण्डेषु गृहीतेषु चतुर्लघुकं लभते साधुः । मूलकर्मणि गर्भाधानपरिशाटादिकरणरूपे मूलं च मूलाख्यमष्टमप्रायश्चित्तं लभते साधुः । इत्युत्पादनादोषप्रायश्चित्तमुक्तम् ।।१३०।। सम्पति ग्रहणैषणादोषाणां दशानामपि क्रमेण प्रायश्चित्तमाह
संकिअदोससमाणं आवज्जइ संकिअंमि पच्छित्तं ।
दुविहं मक्खिअमुत्तं सचित्ता-ऽचित्तभेएणं ।।१३१।। व्याख्या-इह शङ्कितदोषे चत्वारो भङ्गाः-शङ्कितग्राही शङ्कितभोजी, शङ्कितग्राही निःशङ्कितभोजी, निःशङ्कितग्राही शङ्कितभोजी, निःशङ्कितग्राही निःशङ्कितभोजी च । अत्र द्वितीयचतुर्थो भङ्गो शुद्धौ, द्वयोरपि भोजनस्य निःशङ्कितत्वेन निर्दोषत्वात् । द्वितीयभङ्गभाविनश्च शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्भवात्, शेषभङ्गद्वयमध्ये पुनः शङ्किते सति शङ्कितदोषसमानं प्रायश्चित्तमापद्यते । आधाकर्मादीनां षोडशोद्गमदोषाणां मृक्षितादीनां च नवैषणादोषाणां मध्ये यं दोषं ग्रहणे भोजने वा शङ्किते तस्मिन् दोषे यत् प्रायश्चित्तं भवति, तत् शङ्कितदोषे प्राप्नोतीत्यर्थः। मेक्षितं द्विविधमुक्तं सचित्ताऽचित्तभेदेन । सचित्तम्रक्षितम् अचित्तम्रक्षितं च । तत्र यत् सचित्तेन पृथ्वीकायादिना मेक्षितम् अवगुण्ठितं तत् सचित्तम्रक्षितम् । यत् पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्ठितं तदचित्तम्रक्षितम् ।। १३१।। तत्र सचित्तमृक्षितं त्रेधा । एतदेव दर्शयति
भूदगवणमक्खिअम्मिअ तिविहं सचित्तमक्खिअं बिंती। पुढवीमक्खिअमित्थं चउविहं बिति गीअत्था ।।१३२।।