SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो तिविहो निमित्तपिंडो तिकालभेएण तत्थ तीयंमि । चउलहु अह चउगुरुअं अणागए वट्टमाणे अ ।।१२५।। व्याख्या-निमित्तम् अतीताद्यर्थसूचकं शुभाशुभचेष्टादि तत्कथनेन प्राप्तः पिण्डो निमित्तपिण्डस्त्रिविधस्त्रिकालभेदेनातीतानागतवर्तमानलक्षणकालत्रयभेदेन । तत्रातीतकालविषयनिमित्तकथनेन प्राप्ते पिण्डे चतुर्लघु । अनागतकालविषयनिमित्तकथनेन वर्तमानकालविषयनिमित्तकथनेन च लब्धे पिण्डे चतुर्गुरुकम् ।। १२५।। जाइकुलसिप्पगणकम्मभेअओ पंचहा विणिद्दिट्टो । आजीवणाइपिंडो पच्छित्तं तत्थ चउलहुगा ।।१२६ ।। व्याख्या-आजीवनापिण्डो जातिकुलशिल्पगणकर्मभेदतः पञ्चधा विनिर्दिष्टः । तत्र जातिः ब्राह्मणादिका, कुलम् उग्रादि । अथवा मातुः समुत्था जातिः, पितृसमुत्थं कुलम् । शिल्पं तूर्णनसीवनादि । गणो मल्लादिवृन्दम् , कर्म कृष्यादि । अथवा अप्रीत्युत्पादकं कर्म, प्रीत्युत्पादकं तु शिल्पम् । अन्ये त्वाहुः अनाचार्योपदिष्टं कर्म, आचार्योपदिष्टं तु शिल्पमिति । एतैर्जातिकुलशिल्पगणकर्मभिरात्मनो गृहस्थस्य च तुल्यरूपताख्यापनेन लब्धः पिण्डः आजीवनापिण्डः । तत्राऽऽजीवनापिण्डे प्रायश्चित्तं चतुर्लघुकाः ।।१२६ ।। चउलहु वणीमगपिंडे तिगिच्छपिंडं दुहा भणति जिणा । बायरसुहुमं च तहा चउलहु बायरचिगिच्छाए ।।१२७।। व्याख्या-वनीपको भिक्षाचरः तद्वत् पिण्डार्थं श्रमणातिथिब्राह्मणकृपणश्वानादिभक्तानां दायकानामात्मानं तत्तद्भक्तं दर्शयन् यल्लभते स वनीपकपिण्डस्तस्मिन् चतुर्लघु । चिकित्सापिण्डं द्विधा भणन्ति जिना वीतरागा बादरं सूक्ष्मं च । तत्र वैद्यवत् स्वयं वमनविरेचनादि रोगप्रतीकारविधापनं बादरचिकित्सा, तयाऽवाप्तः पिण्डो बादरचिकित्सापिण्डः । वैद्यौषधादिसूचनेन सूक्ष्मा चिकित्सा तया लब्धः पिण्डः सूक्ष्मचिकित्सापिण्डः । तत्र बादरचिकित्सापिण्डे चतुर्लघु ।।१२७।। सुहुमाए मासलहू चउलहुआ कोहमाणपिंडेसु । मायाए मासगुरुं चउगुरु तह लोभपिंडंमि ।।१२८।। व्याख्या-सूक्ष्मचिकित्सापिण्डे लघुमासः । क्रोधमानमायालोभैलब्धाः पिण्डाः क्रोधमानमायालोभपिण्डाः । तत्र साधोर्विद्याप्रभावमुच्चाटनमारणादिकम् , तपःप्रभावं शापदानादिकम् , राजकुले वल्लभत्वम् , क्रोधफलं वा ज्ञात्वा गृहस्थेन यः पिण्डो दीयते स क्रोधपिण्डः । अभिमानेन हठादपि यः पिण्डो गृह्यते स मानपिण्डः । नानाविधविप्रतारणप्रकारैर्यः पिण्डो लभ्यते स मायापिण्डः । वल्लचनकादिकमसारं लभ्यमानमपि प्रतिषिध्य यन्मोदकादि सारमेव प्रतिगृह्णाति अथवा प्रचुरं मधुरस्निग्धादि वस्तु लभ्यमानं दृष्ट्वा यबहु गृह्णाति स लोभपिण्डः । तत्र क्रोधमानपिण्डयोश्चतुर्लघुकाः।मायापिण्डे गुरुमासः । तथा लोभपिण्डे चतुर्गुरु ।।१२८।।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy