________________
इ-जीयकप्पो
तिविहे वि तत्थ चउलहु तओ अज्झोअरं विआणाहि ।
जावंति - अजइपासंडि - मीसभेएण तिविगप्पं । । १२२ ।।
व्याख्या - तत्र त्रिविधेऽपि अनिसृष्टे गृहीते चतुर्लघु । ततोऽध्यवपूरकं विजानीहि यावदर्थिक - यतिपाखण्डि - मिश्रभेदेन त्रिविकल्पं त्रिविधम् । यत्राऽग्निसन्धुक्षणस्थालीजलप्रक्षेपाद्यारम्भे यावदर्थिकाद्यागमनात् पूर्वमेवात्मार्थं निष्पादि पश्चाद्यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरास्तन्दुलाः सह राद्धुं स्थाल्यां प्रक्षिप्यन्ते सोऽध्यवपूरकः । अत एव चास्य मिश्रजाताद् भेदः । यतो मिश्रजातं तदुच्यते यत् प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्र निष्पाद्यते । यत् पुनः प्रथमतः स्वार्थमारभ्यते पश्चात् प्रभूतानर्थिनः पाखण्डिनः साधून् वा समागतानवगम्य तेषामर्थायाधिकतरजलतन्दुलादि प्रक्षिप्यते सोऽध्यवपूरक इति मिश्रजातादस्य भेदः । स त्रिधा यावदर्थिकमिश्रः पाखण्डिमिश्रः यतिमिश्रश्च ।। १२२ ।
मासलहु पढमभेए मासगुरुं चरमंमि जाण भेअदुगे । इअ उग्गमदोसाणं पायच्छित्तं म वुत्तं । । १२३ । व्याख्या - प्रथमभेदे अध्यवपूरकस्य यावदर्थिकरूपमिश्ररूपे मासलघु । चरमे पाश्चात्ये भेदद्विके पाखण्डमिश्रयतिमिश्ररूपे मासगुरु प्रायश्चित्तं जानीहि । इत्यमुना प्रकारेण उद्गमदोषाणां षोडशानां प्रायश्चित्तं मया प्रोक्तं प्रतिपादितम् । एतेषु षोडशोद्गमदोषेषु केचन दोषा विशुद्धकोटिरूपाः केचन पुनरविशुद्धकोटिरूपाः । तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते शेषं कल्पते स दोषो विशुद्धकोटिः । शेषस्त्वविशुद्धकोटिः । तत्राधाकर्म, औदेशिकचरमभेदत्रयम्, भक्तपानपूतिः मिश्रजातान्त्यभेदद्वयम्, बादरप्राभृतिका, अध्यवपूरकान्त्यभेदद्वयं चाविशुद्धकोटिः । पुरीषलवेनेव तदवयवेनापि स्पृष्टं सर्वमभोज्यम्, शेषास्तु विशुद्धकोटयः । तत्सम्पृक्तं चान्नादि संस्तरे साधवः सर्वं त्यजन्ति । असंस्तरे तु विविच्य तदेव त्यजन्ति । घृतादिकमपि तावन्मात्रमेव त्यजन्ति, न शेषम् । यद्यपि तदवयवयोगस्तथापि शुद्धत्वमिति ।। १२३ ।। अथोत्पादनादोषाणां षोडशानां क्रमेण प्रायश्चित्तमाह
धाईड पंच खीराईभेअओ चउलहु तु तपिंडे ।
चउलहु दूईपिडे सगामपरगामभिन्नंमि ।। १२४ ।।
व्याख्या - धात्र्यो बालकपरिपालिकाः ताश्च क्षीरादिभेदतः पञ्च भवन्ति । बालस्य क्षीर - मज्जन- मण्डन- क्रीडनाऽङ्कधात्र्यः । तासां कर्म धात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डस्तस्मिन् धात्रीपिण्डे चतुर्लघु । दूती परसन्दिष्टार्थकथिका, तस्याः कर्म दौत्यम्, तेन दौत्येन स्वग्रामे परग्रामे वा सन्दिष्टार्थकथनरूपेण प्राप्तः पिण्डो दूतीपिण्डस्तस्मिन् दूतीपिण्डे स्वग्रामपरग्रामभेदभिन्ने चतुर्लघु ।।१२४।।