________________
जइ-जीयकप्पो
तह य कवाडुब्भिन्नं लहुमासो तत्थ दद्दरुग्भिन्ने । चउलहुअं सेसदुगे तिविहं मालोहडं तु भवे ।। ११९।। व्याख्या - यस्मिन् ग्रामे साधुर्भवति तस्मादेव ग्रामादाहृतं साधुसमीपे दानायानीतं स्वग्रामाहृतं तस्मिन् स्वग्रामाहते मासलघु प्रायश्चित्तम् । उद्भिन्नं पुनस्त्रिविधं भवति - लिप्तोद्भिन्नं दर्दरोद्भिन्नं कपाटोद्भिन्नं च । तत्र जतुछगणादिलेपेन विलिप्तं घृतघटादिमुखं साधूनां दानार्थमुद्भिद्य घृतादि यद्दीयते तल्लिप्तोद्भिन्नम् । दर्दरः कुतुपादेर्मुखबन्धनं वस्त्रचर्मादिखण्डं तं दर्दरमुद्भिद्य यद्दीयते तद्दर्दरोद्भिन्नम् । तथा यत् पिहितं कपाटमुद्भिद्य उद्घाट्य साधुभ्यो दीयते तत्कपाटोद्भिन्नम् । तत्र दर्दरोद्भिन्ने लघुमासः । शेषद्विके लिप्तोद्भिन्नकपाटोद्भिन्नलक्षणे चतुर्लघुकम् । मालापहृतं मालं प्रासादोपरितलं तस्मादपहृतं मालापहृतम् । उपलक्षणत्वात् करदुर्ग्राह्यं यद् दात्री ददाति तत् सर्वं मालापहृतं ।। ११९ ।। तत् पुनस्त्रिविधं भवति । कथम् ? उक्किट्ठजहन्नमज्झिम - भेअओ तत्थ चउलहुक्किट्टे ।
लहुमासो अ जहन्ने गुरुमासं मज्झिमे जाण । । १२० ।। व्याख्या - जघन्यमध्यमोत्कृष्टभेदत्रयान्मालापहृतं त्रिधा । तत्र भून्यस्ताभ्यां पादयोरग्रभागाभ्यां पार्ष्णिभ्यां चोत्पातिताभ्यामूर्ध्वविलगितसिक्ककादिस्थितं दात्र्या दृष्टेरगोचरं यद्दीयते तज्जघन्यं मालापहृतम् । मञ्चकादिकमारुह्य यद्दीयते तन्मध्यमम् । निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यद्दीयते तदुत्कृष्टं मालापहृतम् । तत्रोत्कृष्टे मालापहृते गृहीते चतुर्लघु । जघन्ये मालापहृते लघुमासः । मध्यमे मालापहृते गुरुमासं जानीहि ।। १२० ।।
सामिपहुतेणकए तिविहे वि अ चउलहुं तु अच्छिज्जे ।
साहारण - चुल्लग - जड्डुभेअओ तिविहमणिसिद्धं ।। १२१ ।।
व्याख्या-आच्छेद्यं त्रिधा - स्वामिप्रभुस्तेनभेदात् । स्वामी ग्रामादिनायकः प्रभुः गृहाधिपः तौ स्वायत्तमानुषेभ्यः । स्तेनाः चौरास्ते सार्थिकादिभ्यो बलादाच्छेद्य उद्दाल्य यत् साधुभ्यो ददाति तदाच्छेद्यम् । तस्मिन् त्रिविधेऽपि स्वामिप्रभुस्तेनकृते आच्छेद्ये गृहीते चतुर्लघुकम् । अनिसृष्टं त्रिविधं साधारण - चोल्लक - जड्डुभेदतः । तत्र साधारणराद्धं भक्तं सर्वाननुज्ञातमेकादेर्ददतः साधारणानिसृष्टम् । चोल्लको भोजनं यत् कौटुम्बिकप्रेषितहालिकयोग्यचोल्लकमध्यात् कौटुम्बिकाननुज्ञया चोल्लकवाही साधवे ददाति तच्चोल्लकानिसृष्टम् । जड्डो हस्ती तस्य सत्कं पिण्डादिकं राज्ञा गजेन वाऽननुज्ञातं जड्डानिसृष्टम् ।।१२१।।