________________
जइ - जीयकप्पो अप्पपरदबकीए सभावकीए अ होइ चउलहुअं।
परभावक्कीए पुण मासलहुं पावए समणो ।।११३।। व्याख्या-आत्मद्रव्यक्रीते परद्रव्यक्रीते स्वभावक्रीते च चतुर्लधुकं भवति। परभावक्रीते पुनर्मासलघु प्राप्नोति श्रमणः।।११३।।
अह लोउत्तरलोइअभेएणं दुविहमाहु पामिच्चं ।
लोउत्तरि मासलहू चउलहुअं लोइए होइ ।।११४ ।। व्याख्या-अथ प्रामित्यं द्विविधमाहुः लोकोत्तर-लौकिकभेदेन । यदुद्धारकेण वस्त्राद्यानीय साधुभ्यो ददाति गृहस्थस्तल्लौकिकं प्रामित्यम् । साधुरेव वस्त्राभावे साध्वन्तरपार्खाद्यदुद्धारके गृह्णाति तल्लोकोत्तरम् । तत्र लोकोत्तरे मासलघु । लौकिके चतुर्लघुकं भवति ।। ११४।।।
परिअट्टि पि दुविहं लोउत्तरलोइअप्पगारेहिं ।
लोउत्तरि मासलहू चउलहुअं लोइए होइ ।।११५।। व्याख्या-परिवर्तितमपि द्विधा लौकिकलोकोत्तरप्रकाराभ्याम् । तत्र यदन्यदीयं वस्त्राद्यात्मीयैः परावर्त्य गृही साधुभ्यो ददाति तल्लौकिकम् । साधव एव यन्मिथः परिवर्तयन्ति तल्लोकोत्तरम् । तत्र लोकोत्तरे परिवर्तित मासलघु । लौकिके चतुर्लघुकं भवति ।। ११५।।
अभिहडमुत्तं दुविहं सगामपरगामभेअओ तत्थ ।
चरमं सपच्चवायं अपच्चवायं च इअदुविहं ।।११६ ।। व्याख्या-अभ्याहृतम्-अभि-सम्मुखं स्वस्थानात् साधुसमीपे दानायाहृतम्-आनीतमभ्याइतम् । तच्च द्विविधमुक्तं स्वग्रामपरग्रामभेदतः । स्वग्रामाऽभ्याहृतं परग्रामाऽभ्याहृतं चेत्यर्थः । तत्र तयोर्मध्ये चरमं पाश्चात्यं परग्रामाऽभ्याहृतं पुनर्द्विविधं सप्रत्यपायमप्रत्यपायं चेति ।।११६।।
सपच्चवायपरगाम आहडे चउगुरुं लहइ साहू ।
निपच्चवायपरगामआहडे चउलहु जाण ।।११७। व्याख्या-परस्माद् अन्यस्माद् ग्रामाद् यत् साधुदाननिमित्तम् आहृतम् आनीतं तत् परग्रामाहृतम् । तस्मिन् परग्रामाहृते सप्रत्यपाये अनर्थसहिते गृहीते चतुर्गुरुकं लभते साधुः । परग्रामाते निष्पत्यपाये चतुर्लघुकं प्रायश्चित्तं जानीहि ।।११७।।
मासलहु सग्गामाहडम्मि तिविहं च होइ उन्भिन् । जतुछगणाइविलित्तुन्भिन्नं तह दद्दरुन्भिन्नं ।।११८।।