________________
इ-जीयकप्पो व्याख्या–यावदर्थिकमिश्रजाते चतुर्लघु । पाखण्डिमिश्रजाते सुष्ठु अतिशयेनाऽगृहाः स्वगृहा अनगारास्तैः सह मिश्रजातम् । तस्मिँश्चतुर्गुरु । स्थापना द्विविधा निर्दिष्टा तीर्थकरादिभिः - चिरेत्वरभेदेन चिरस्थापना इत्वरस्थापना च । यत् साध्वर्थं स्थापयित्वा मुञ्चति सा चिरस्थापना | गृहपङ्क्त्यामेकः साधुरेकत्र गृहे भिक्षां सम्यगुपयोगेन परिभावयन् गृह्णाति, द्वितीयस्तु द्वयोः पार्श्वस्थितगृहयोर्हस्तगते द्वे भिक्षे परिभावयति, ततो गृहत्रयात् परतो गृहान्तरे साधुनिमित्तं या हस्तगता भिक्षा सा इत्वरस्थापना तत्रोपयोगाऽसम्भवात् ।। १०९ ।। चिरठविए लहुमासो इत्तरठविअंमि देसिअं पणगं ।
पाहुडिआ वि अ दुविहा बायरसुहुमप्पयारेहिं । । ११०।।
व्याख्या- चिरस्थापिते चिरस्थापनादोषे लघुमासः । इत्वरस्थापिते इत्वरस्थापनादोषे पञ्चकं देशितं कथितम् । प्राभृतिकाऽपि च द्विविधा बादरसूक्ष्मप्रकाराभ्यां बादरप्राभृतिका सूक्ष्मप्राभृतिका च । तत्र गुर्वागमनं ज्ञात्वा कोऽपि श्रावको विवाहादेरुपसर्पणमपसर्पणं वा यत्करोति सा बादरा । यत्तु पुत्रादौ भोजनमर्थयमाने सति साध्वर्थमुत्थिता तवापि दास्यामीति ब्रूते गृहस्था सा सूक्ष्मा ।।११०।।
बायरपाहुडिआए चउगुरु सुहुमाइ पावए पणगं ।
पायडपयासकरणं तं बिंति पाउअरं दुविहं । ।१११ ।।
व्याख्या– बादरप्राभृतिकायां बादरप्राभृतिकादोषदुष्टाऽऽहारग्रहणे चतुर्गुरु । सूक्ष्मायां प्राभृतिकायां साधुः पञ्चकं प्राप्नोति । प्रादुष्करणं द्विविधं ब्रुवते समयविदः प्रकटकरणं प्रकाशकरणमित्यमुना प्रकारेण । तत्रान्धकारादपसार्य बहिः सप्रकाशप्रदेशे साध्वर्थमन्नादि स्थापनं प्रकटकरणम् । सान्धकारस्थानस्थितस्यैवाऽन्नादेर्मणि- प्रदीपगवाक्ष - कुड्य - छिद्राद्यैरुद्योतकरणं प्रकाशकरणम् ।।१११।।
मासलहु पयडकरणे पगासकरणे अ चउलहुं लहइ ।
अप्पपरदव्वभावेहि चविहं की माहंसु ।। ११२ ।।
व्याख्या–प्रकटकरणे मासलघु । प्रकाशकरणे चतुर्लघुप्रायश्चित्तं लभते साधुः । क्रीतं चतुर्विधमवोचन्ननूचानाः । कथम् ? आत्मपरद्रव्यभावैः आत्मद्रव्यक्रीतम्, आत्मभावक्रीतम्, परद्रव्यक्रीतम्, परभावक्रीतं चेति । तत्राऽऽत्मना स्वयमेव द्रव्येणोज्जयन्तभगवत्प्रतिमा शेषादिरूपेण प्रदानतः परमावर्ज्य यद् भक्तादि गृह्यते तदात्मद्रव्यक्रीतम्। यत् पुनरात्मना स्वयमेव भक्ताद्यर्थं धर्मकथादिना परमावर्ज्य भक्तादि ततो गृह्यते तदात्मभावक्रीतम् । तथा परेण यत् साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतम् । यत् पुनः परेण साध्वर्थं निजविज्ञानप्रदर्शनेन धर्मकथादिना वा परमावर्ज्य ततो गृहीतं तत्पर भावक्रीतम् ।। ११२।।
A. विद्वांसः ।