________________
जइ - जीयकप्पो
ततश्चैवं भेदाभिधानम्-उद्दिष्टोद्देशम् उद्दिष्टसमुद्देशम् उद्दिष्टादेशम् उद्दिष्टसमादेशम् । कृतोद्देशं कृतसमुद्देशं कृतादेशं कृतसमादेशम् । कर्मोद्देशं कर्मसमुद्देशं कमदिशं कर्मसमादेशम् । एवं विभागे-विभागविषयमौदेशिकं द्वादशविधं भवति ।।१०५।। अथैतेषां द्वादशानां भेदानां प्रायश्चित्तमाह
चउभेए उद्दिढे लहुमासो अह चउबिहंमि कडे ।
गुरुमासो चउलहुअं कम्मुद्देसे अ नायव्वं ।।१०६ ।। व्याख्या-चतुर्भेदे चतुष्प्रकारे उद्दिष्टे पूर्वोक्तस्वरूपे गृहीते लघुमासः । अथ चतुर्विध कृते गुरुमासः । कर्मदिशे च चतुर्लघुकं ज्ञातव्यम् ।।१०६।।
कम्मसमुद्देसाइसु तिसु चउगुरु भकति समयन्नू ।
दुविहं तु पूइकम्मं उवगरणे भत्तपाणे अ।।१०७।। व्याख्या-कर्मसमुद्देशादिषु त्रिषु भेदेषु-कर्मसमुद्देश-कमदिश-कर्मसमादेशेषु चतुर्गुरुकं प्रायश्चित्तं भणन्ति समयज्ञाः श्रुतधरा-गणधरादयः । पूतिकर्म सूक्ष्मं बादरं च भवति । तत्र सूक्ष्ममाधाकर्मिकगन्धाग्निधूमादिभिः स्यात्, तददुष्टम् आचीर्णत्वादशक्यपरिहारत्वाच्च । बादरं तु पूतिकर्म द्विविधम्-उपकरणे भक्तपाने च । तत्रोपकरणं चू(चु?)ल्लीस्थालीदादिरूपम् । चुल्ली च या कियता शुद्धेन कियता चाऽऽधाकर्मिकण कर्दमन निष्पादिता सा इत्थम्भूता उपकरणपूतिः । अनया दिशा अन्यस्याऽप्युपकरणस्य पूतित्वं भावनीयम्। आधाकर्मिकचुल्लीस्थाल्यादिषु राद्धं स्थापितं वा आधाकर्मभक्तादिखरण्टितस्थाल्यादौ स्थापितं वा आधाकर्मभक्तादिलवेनाऽपि मिश्रं वा भक्तं पानं वा स्वरूपतः शुद्धमपि पूति अपवित्रं स्यात् । यथा अशुचिलवेनाऽशनादि । एतद् भक्तपानपूतिकर्म ।। १०७।।
उवगरणपूइ मासलहु मासगुरु भत्तपाणपूइंमि ।
जावंतिअ-जइ-पासंडि मीसजायं भवे तिविहं ।।१०८।। व्याख्या-उपकरणपूतौ मासलघु । भक्तपानपूतौ मासगुरु प्रायश्चित्तम् । अथ मिश्रजातं त्रिविधं भवति । यावदर्थिकमिश्र पाखण्डिमिश्र यतिमित्रं च । यत् स्वस्य तेषां च योग्यं प्रथमतोऽप्यग्निज्वालनाऽधिश्रयणदानाद्यैरशनादि मिश्रितमेव राद्धमारभ्यते तन्मिश्रमेव जातमुत्पन्नं मिश्रजातम् ।।१०८।।
जावंति मिसि चउलहु चउगुरु पासंडि सघरमीसंमि । चिर-इत्तरभेएणं निहिट्ठा ठावणा दुविहा ।।१०९।।