________________
जइ - जीयकप्पो
सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा उ । दस एसणाइ दोसा संजोअणमाइ पंचेव' ।। षोडशोद्गमदोषा आधाकर्मादयः । ततः षोडशोत्पादनादोषा धात्र्यादयः । अथ दशैषणादोषाः शङ्कितादयः । तदनु पञ्च ग्रासैषणादोषाः संयोजनादयः । एतेषां च विस्तरव्याख्या पिण्डनियुक्तितोऽवसेया । लेशतश्चात्रापि यथास्थानं दर्शयिष्यते । यथा तद्विषयं प्रायश्चित्तं सुज्ञातं भवति ।। १०३।। तत्र प्रथमं षोडशोद्गमदोषाणां क्रमेण प्रायश्चित्तं प्ररूपयति
आहाकम्मे चउगुरु दुविहं उद्देसिअं विआणाहि ।
ओहविभागे अ तहिं मासलहू ओहउद्देसे ।।१०४।। व्याख्या-यत् साध्वर्थमेव सचित्तमचित्तीक्रियते तदाधाकर्म, तस्मिन्नाधाकर्मणि चतुर्गुरु । आधाकर्मदोषदुष्टमाहारं गृह्णानस्य साधोश्चतुर्गुरु प्रायश्चित्तं भवतीत्यर्थः । एवं सर्वत्र ज्ञेयम् । औद्देशिकं द्विविधम्-ओघतो विभागतश्च । तत्र स्वकुटुम्बार्थं पच्यमाने भक्ते पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समेष्यति, तस्य भिक्षादानार्थं कतिपयानधिकतरान् तन्दुलान् ओघेन-सामान्येन एतावत् स्वार्थं एतावच्च भिक्षादानार्थमित्येवं विभागरहितेन गृहनायको यत् क्षिपति, एतदोघौदेशिकम् । तस्मिन्नोघौदेशिके गृहीते मासलघु ।। १०४।।
बारसविहं विभागे चउहुद्दिष्टुं कडं च कम्मं च ।
उद्देस-समुद्देसा-ऽऽदेस-समाएसभेएणं ।।१०५।। व्याख्या-वीवाहप्रकरणादिषु यदुद्धरितं तत् पृथक् कृत्वा दानाय कल्पितमेतत् विभागेनस्वसत्तातः पृथक्करणेनौद्देशिकं विभागौद्देशिकम् । तच्च प्रथमतस्त्रिधा-उद्दिष्टं कृतं कर्म च । तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम् । यत् पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत् कृतमित्युच्यते । यत् पुनर्वीवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्म । यदुक्तम्संखडिभत्तुवरिअं चउण्हमुद्दिसइ जं तमुद्दिडं । वंजणमीसाइ कडं तमग्गितविआइ पुण कम्म' ।। एकैकं पुनश्चतुर्द्धा-उद्देशसमुद्देशादेशसमादेशभेदेन । तत्र यद् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समेष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं तद् उद्देशम् । पाखण्डिनां देयत्वेन कल्पितं समुद्देशम् । श्रमणानामादेशम् । निर्ग्रन्थानां समादेशम् । यदुक्तम्आवंतिअमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं' ।।