Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 106
________________ इ-जीयकप्पो नवममासे तु न गृह्णन्ति निषदनोत्थानाभ्यां गर्भपीडासम्भवात् १२ । निगडेन लोहमयपादबन्धनेन बद्धः अण्डुकेन काष्ठमयकरबन्धनेन बद्धः । एताभ्यां सकाशात् परितापनादिदोषसम्भवाद् भिक्षा न ग्राह्या १३-१४। बालवत्सा स्तन्योपजीविशिशुका । तया दीयमानं न कल्पते, निक्षिप्तबालस्य मार्जारादिभ्यो विनाशसम्भवात् । निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवात् १५ । अग्रेतनगाथास्थितो याशब्दोऽत्र प्रत्येकमभिसम्बध्यते । ततश्च या काचिन्महिला खण्डयति उदूखलक्षिप्तानि शाल्यादिबीजानि मुसलघातैः श्लक्ष्णीकरोतीत्यर्थः । तया दीयमाना भिक्षा न ग्राह्या । बीजसङ्घट्टनाद्यारम्भसम्भवात् १६ । तथा पिनष्टि शिलायां तिलामलककुस्तुम्बुरुलवणजीरकादि मृद्नातीति भावः । अनयापि दीयमानं न कल्पते, तिलादिसङ्घट्टनसद्भावात् १७। तथा भृज्जति चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः । तया दीयमानं न कल्पते, कडिल्लकादिप्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात् १८ । तथा जेमति भुङ्क्तेऽभ्यवहरतीत्यर्थः । भुआना हि आचमनं विधाय यदि साधुभ्यो दद्यात् तदाऽप्कायविराधना । अथैतद्दोषभयात्तदकृत्वैव वितरेत् तदोच्छिष्टमप्येते न त्यजन्तीत्यादिजनाऽपवादः स्यात् । तत्र च महान् दोषः । यदाह — छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे निहारे दुगुछिए पिंडगहणे वि' ।। (ओ० नि०४४३) इत्यतो न कल्पते १९ । तथा विरोलयति करमन्थानादिना दध्यादिकं मथ्नाति । सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते २० । तथा दलति सजीवं सचित्तं गोधूमादिधान्यं घरट्टेन पिनष्टि । इयं हि भिक्षादानायोत्तिष्ठन्ती बीजानि सङ्घट्टयति, दत्त्वा च करौ प्रक्षालयतीति न गृह्यते २१ । तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति तया दीयमाना भिक्षा न कल्पते, प्रवर्त्तनादिदोषसम्भवात् २२ । तथा उद्वर्त्तयति साधुदानबुद्ध्या परावर्तयति पिठरादि स्थाल्यादि नमयतीत्यर्थः । अत्र च कीटिकादिसत्त्वोपघातः स्यात् २३ । तथा त्रिधा ऊर्ध्वाऽधस्तिर्यग्लक्षणैस्त्रिभिः प्रकारैः सप्रत्यपायकोष्ठकण्टकगवादिभ्यः सकाशात् सम्भाव्यमानाभिघाताद्यनर्था या काचिद् वनिता स्यात् । सहा सपच्चवाया जा' इति पाठे तु तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादिर्वा, तया दीयमानं न कल्पते २४ । तथा साधारणं बह्वायत्तं तद्ददातीति योगः । तत्र साधारणानिसृष्टवद्दोषा वाच्याः २५ । तथा चोरितकं चौरिकया गृहीतं साधुभ्यो ददाति । तत्र च दोषाः प्रतीता एव २६ । तथा पाराक्यं परसत्कं परकीयमिदमित्युक्त्वा ददाति । अथवा परार्थं परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थः । तद्ददाति । अत्र च परसत्के तत् स्वामिनाऽननुज्ञाते परदानाय कल्पिते च दीयमाने अदत्तादानान्तरायादयो दोषाः २७ ।।१५०-१५१।। अथैतेषु दायकेषु ददानेषु भिक्षां गृह्णानस्य साधोः प्रायश्चित्तमाह

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226