Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 107
________________ जइ - जीयकप्पो दितेसु एसु चउलहु चउगुरु पगलंत पाउआरूढे । कत्तइ लोढइ पिंजइ विक्खिणइ मद्दए अ मासलहु ।।१५२।। व्याख्या-एतेषु सप्तविंशतिसङ्ख्येषु दायकेषु भिक्षां ददत्सु गृहीतुः साधोश्चतुर्लघु प्रायश्चित्तं भवति । तथा प्रगलन् गलत्कुष्ठः, ततो भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रान्तिः स्यात् । तदीयोच्छवासत्वक्संस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिभिः शरीरान्तरे तत् सङ्क्रमणस्याभिहितत्वात् ततो न ग्राह्या । तथा पादुकारूढः काष्ठादिमयोपानत्समारूढः । स हि भिक्षां प्रयच्छन् दुर्व्यवस्थित्वात् कदाचित् पतति, कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते । अनयोदयिकयोभिक्षां ददानयोर्गृह्णानस्य साधोश्चतुर्गुरु प्रायश्चित्तं स्यात् । तथा या कर्त्तयति रूतं सच्चक्रेण सूत्रं करोति । तथा लोढयति कार्पासं लोढिन्यां कनकेन निरस्थिकं करोतीत्यर्थः । तथा पिञ्जयति रूतं पिअनेन मृदूकरोति । तथा विक्खिणइ' ति । विकीर्णयति रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति । एताभिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसङ्घट्टनदेयवस्तुखरण्टितहस्तधावनदोषसम्भवात् । एताभ्यश्चतसृभ्यो दायिकाभ्यः सकाशाद् भिक्षाग्रहणे मईक च प्रमर्दनप्रवृते दातरि च मासलघु प्रायश्चित्तं भवति । अथ षट्कायान् विराधयन्ती या दात्री ददाति ।।१५२ ।। तद्विषयं प्रायश्चित्तमाह छक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव । ' घट्टती गाहंती आरंभंती अ सट्ठाणं ।।१५३ ।। व्याख्या-षट्कायव्यग्रहस्ता षट्काययुक्तहस्ता । इह षट्कायव्यग्रहस्ता सा उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो दृतिकः फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते । ततः सा श्रमणार्थं श्रमणभिक्षादानार्थमुत्थाय षट्कायान् भूम्यादौ निक्षिप्य पुनस्तानेव घट्टयन्ती तत् सङ्घट्ट कुर्वाणा । तानेव गाहमाना विलोडनेन इतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती । तानेव आरभमाणा च षट्कायोपद्रवकरमारम्भं कुर्वाणा खननमर्दनादिना पृथ्वीकायं मज्जनवस्त्रधावनादिनाऽप्कायं उल्मुकघट्टनादिनाऽग्निं अग्न्यादेः फूत्करणादिना मारुतं फलादेः कर्त्तनादिना वनस्पतिं स्फुरन्मत्स्यादिछेदनादिना त्रसकायं च विराधयन्तीत्यर्थः । एवंविधा दात्री यदि ददाति, ततो गृहीतुः साधोः स्वस्थानं प्रायश्चित्तं भवति । अयमभिप्रायो-जीतकल्पेऽस्यापराधस्य यत् प्रायश्चित्तमुक्तमस्ति तत् तस्य स्वस्थानम् ।।१५३ ।। एतदेव स्वस्थानप्रायश्चित्तं गाथायुगलेन व्यक्तमेव दर्शयति भूजलसिहिपवणपरित्तघट्टणागाढगाढपरिआवे । उद्दवणे वि अ कमसो पणगं लहु गुरु अमास चउलहुआ ।।१५४।। व्याख्या-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् कुर्वाणा यदि दात्री ददाति तदा क्रमशः क्रमेण साधोरिदं प्रायश्चित्तं भवति । यथा-सङ्घट्टे पञ्चकम् । अगाढपरितापे लघुमासः । गाढपरितापे गुरुमासः । उपद्रवे चतुर्लघुकाः ।। १५४।। A. गलत्कुष्ठपादुकारुढयोः। B. शलाकया ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226