Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 109
________________ - जीयकप्पो जइ - चउगुरु सचित्तअणंतमीसिए मिस्सेणं तु उम्मीसे । मासगुरु दुविहं पुण अपरिणयं दव्वभावेहिं । । १५८ ।। व्याख्या - सचित्तानन्तमिश्रिते सचित्तेनाऽनन्तकायेन मिश्रिते आहारे गृहीते चतुर्गुरु । मिश्रेणानन्तकायेनोन्मिश्रे मासगुरु । अथाऽपरिणते दोषस्वरूपं दर्शयति अपरिणतं पुनर्द्विविधं द्रव्यभावाभ्यां द्रव्यापरिणतं भावापरिणतं चेतिभावः । द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतम् अप्रासुकं भवति । भावोऽध्यवसायः । स च द्वयोः स्वामिनो मध्यादेकस्यापरिणतो दानेऽनभिमुखोऽथवा भिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निर्दोषमित्यध्यवसायः, द्वितीयस्य तु न तथाऽध्यवसायः ।। १५८ ।। ततो भावेन दातृसत्केन गृहीतृसत्केन वा अपरिणतं भावापरिणतं द्विविधेऽप्यपरिणते प्रायश्चित्तमाह— ओहेण दव्वभावापरिणयभेएसु दुसुवि चउलहुअं । दव्वापरिणमिए पुण जं नाणत्तं तयं सुणह ।। १५९ ।। व्याख्या- द्रव्यभावापरिणत भेदयोर्द्वयोरपि ओघेन चतुर्लघुकं द्रव्यापरिणते भावापरिणतेऽप्याहारे गृहीते सामान्येन चतुर्लघुकं प्रायश्चित्तं भवतीति भावः । द्रव्यापरिणते पुनर्यन्नानात्वं विशेषः तकत् तत् शृणुत निशमयत यूयमिति शिष्यान् सावधानीकृत्य ।। १५९ ।। तदेव नानात्वमाह अपरिणमंत छकाए चउलहु पणगं च बीअअपरिणए । मीसछकायापरिणय दोसे लहुमास माहंसु ।। १६० ।। व्याख्या- अपरिणमन्तोऽचित्तपरिणाममव्रजन्तोऽप्रासुका इत्यर्थः । एवंविधा ये षट्कायाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसकायरूपाः, तेषु षट्कायेष्वपरिणतेषु यथासम्भवं गृहीतेषु चतुर्लघु । बीजापरिणते अपरिणतानिअप्रासुकानि यानि प्रत्येकानन्तवनस्पतिबीजानि तेषां ग्रहणे पञ्चकं प्रथमप्रायश्चित्तमित्यर्थः । मिश्रषट्कायापरिणतदोषे । मिश्राः सचित्ताऽचित्तरूपा ये षट्कायाः पृथिव्यादयः तानाश्रित्यापरिणतदोषे अप्रासुकीभूतमिश्रषट्कायग्रहणे इत्यर्थः । लघुमासं प्रायश्चित्तमुक्तवन्तः तीर्थकरगणधराः ।। १६०।। सचित्तणंतकाए अपरिणए चउगुरुं मुणेअळं । मीसाणंतपरिणए गुरुमासो भासिओ गुरुणा । । १६१।। व्याख्या - सचित्तः सजीवो योऽनन्तकायः तस्मिन्नपरिणते अप्रासुके गृहीते चतुर्गुरु प्रायश्चित्तं मुणितव्यं ज्ञातव्यम् । मिश्रः सचित्ताचित्तरूपो योऽनन्तकायः तस्मिन्नपरिणते गृहीते गुरुमासो भाषितः प्रतिपादितो गुरुणा जगद्गुरुणा जिनेन इति ।। १६१ । । अपरिणतदोषप्रायश्चित्तमभिधाय लिप्तदोषप्रायश्चित्तमाह

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226