Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 71
________________ जइ - जीयकप्पो व्याख्या-उपधिहरणे यस्योपरि रोषः स्यात् तस्य साधोः परिभोग्यस्य उपधेः उपकरणस्य हरणम् अपहरणमपहारणं वा, तत्राऽसम्पत्तौ चतुर्गुरुकाः, सम्पत्तौ च षड्लघुकाः । प्रान्तापनं यष्टिमुष्ट्यादिप्रहारैर्हननं, तस्य सङ्कल्पः चिन्तनं तस्मिन् सति 'अचलमाणस्स' अचलतः तदवस्थस्यैव कायक्रियामप्रयुञानस्य षड्लघुकाः ।।७१।। पहरणमग्गणि छग्गुरु छेओ दिटुंमि अट्ठमं गहिए । उग्गिन्न दिन्न अमए नवमं उद्दावणे चरिमं ।।७२।। (नि०भा० ११२) व्याख्या–प्रहरणं लकुटादि तस्य मार्गणमितस्ततो गवेषणं तस्मिन् षड्गुरु । तेन च मार्गयता प्रहरणे दृष्टे चक्षुर्निपाते कृतमात्रे एव छेदः । गत्वा तस्मिन् प्रहरणे हस्तेन गृहीते सत्यष्टमम्, मासलघुकाद् गण्यमानं मूलमष्टमं भवति । यस्य रुष्टस्तस्योपरि प्रहरणे उद्गीर्णे उत्पाटिते सति नवमं भवति । दत्ते प्रहारे यदि न मृतस्तदापि नवममेवानवस्थाप्यमित्यर्थः । प्रहारे दत्ते यदि मृतस्तदा चरमं पाराञ्चिकं भवति ।।७२ ।। अथाधिकरणं कृत्वा कश्चिदनुपशान्त एव गच्छे तिष्ठति तस्य विधिमाह. गच्छा अणिग्गयस्सा अणुवसमं तस्सिमो विही होइ । सज्झाय-भिक्ख-भत्तट्ठ-वासए चउर हिक्किक्के ।।७३ ।। (नि०भा० २७९६, बृ०क० ५७६२) व्याख्या गच्छादनिर्गतस्यानुपशाम्यतोऽयं विधिर्भवति सूर्योदयकाले यः स्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते । द्वितीयं भिक्षावतरणवेलायाम् । तृतीयं भक्तार्थकाले । चतुर्थं प्रादोषिकाऽऽवश्यकवेलायाम् । एवं चतुरो वारानेकैकस्मिन् दिने नोद्यते । तच्चाधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्याये अप्रस्थापिते एवमादिकारणे उत्पद्येत- दोषदुष्टां प्रतिलेखनां कुर्वन्, अप्रतिलेखयन्, असामाचार्या वा प्रतिलेखयन्नोदितो यदि सम्यग् न प्रतिपद्यते ततोऽधिकरणं भवेत् । उत्पन्ने चाधिकरणे यदि स्वाध्याये अप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम्। अथ नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयो यथा-तिष्ठतु तावद्यावत् सर्वेऽपि मिलन्ति । तत आगतेषु सर्वेषु सूरयो ब्रुवते-आर्योपशाम्य इमे साधवः स्वाध्यायं न प्रस्थापयन्ति । स पृष्टोत्तरं प्रयच्छति-अवश्यं कालो न शुद्धः, परिजितं वा साधूनां सूत्रश्रुतं ततो न प्रस्थापयन्ति । एवं भणतस्तस्य मासगुरु । साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति । काले प्रतिक्रान्ते भिक्षावेलायां जातायां पुनराचार्या भणन्ति-आर्य! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावतरन्ति, उपशमं कुरु । स पृष्टोत्तरं ददाति-नूनमभक्तार्थिनः, न वा भिक्षावेला । एवमुक्ते सर्वेऽप्यवतरन्ति तस्यानुपशान्तस्य द्वितीयं मासगुरु । भिक्षानिवृत्तेषु साधुषु गुरवो A. प्रेर्यते ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226