________________
जइ - जीयकप्पो व्याख्या-उपधिहरणे यस्योपरि रोषः स्यात् तस्य साधोः परिभोग्यस्य उपधेः उपकरणस्य हरणम् अपहरणमपहारणं वा, तत्राऽसम्पत्तौ चतुर्गुरुकाः, सम्पत्तौ च षड्लघुकाः । प्रान्तापनं यष्टिमुष्ट्यादिप्रहारैर्हननं, तस्य सङ्कल्पः चिन्तनं तस्मिन् सति 'अचलमाणस्स' अचलतः तदवस्थस्यैव कायक्रियामप्रयुञानस्य षड्लघुकाः ।।७१।।
पहरणमग्गणि छग्गुरु छेओ दिटुंमि अट्ठमं गहिए । उग्गिन्न दिन्न अमए नवमं उद्दावणे चरिमं ।।७२।।
(नि०भा० ११२) व्याख्या–प्रहरणं लकुटादि तस्य मार्गणमितस्ततो गवेषणं तस्मिन् षड्गुरु । तेन च मार्गयता प्रहरणे दृष्टे चक्षुर्निपाते कृतमात्रे एव छेदः । गत्वा तस्मिन् प्रहरणे हस्तेन गृहीते सत्यष्टमम्, मासलघुकाद् गण्यमानं मूलमष्टमं भवति । यस्य रुष्टस्तस्योपरि प्रहरणे उद्गीर्णे उत्पाटिते सति नवमं भवति । दत्ते प्रहारे यदि न मृतस्तदापि नवममेवानवस्थाप्यमित्यर्थः । प्रहारे दत्ते यदि मृतस्तदा चरमं पाराञ्चिकं भवति ।।७२ ।। अथाधिकरणं कृत्वा कश्चिदनुपशान्त एव गच्छे तिष्ठति तस्य विधिमाह. गच्छा अणिग्गयस्सा अणुवसमं तस्सिमो विही होइ । सज्झाय-भिक्ख-भत्तट्ठ-वासए चउर हिक्किक्के ।।७३ ।।
(नि०भा० २७९६, बृ०क० ५७६२) व्याख्या गच्छादनिर्गतस्यानुपशाम्यतोऽयं विधिर्भवति सूर्योदयकाले यः स्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते । द्वितीयं भिक्षावतरणवेलायाम् । तृतीयं भक्तार्थकाले । चतुर्थं प्रादोषिकाऽऽवश्यकवेलायाम् । एवं चतुरो वारानेकैकस्मिन् दिने नोद्यते । तच्चाधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्याये अप्रस्थापिते एवमादिकारणे उत्पद्येत- दोषदुष्टां प्रतिलेखनां कुर्वन्, अप्रतिलेखयन्, असामाचार्या वा प्रतिलेखयन्नोदितो यदि सम्यग् न प्रतिपद्यते ततोऽधिकरणं भवेत् । उत्पन्ने चाधिकरणे यदि स्वाध्याये अप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम्। अथ नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयो यथा-तिष्ठतु तावद्यावत् सर्वेऽपि मिलन्ति । तत आगतेषु सर्वेषु सूरयो ब्रुवते-आर्योपशाम्य इमे साधवः स्वाध्यायं न प्रस्थापयन्ति । स पृष्टोत्तरं प्रयच्छति-अवश्यं कालो न शुद्धः, परिजितं वा साधूनां सूत्रश्रुतं ततो न प्रस्थापयन्ति । एवं भणतस्तस्य मासगुरु । साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति । काले प्रतिक्रान्ते भिक्षावेलायां जातायां पुनराचार्या भणन्ति-आर्य! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावतरन्ति, उपशमं कुरु । स पृष्टोत्तरं ददाति-नूनमभक्तार्थिनः, न वा भिक्षावेला । एवमुक्ते सर्वेऽप्यवतरन्ति तस्यानुपशान्तस्य द्वितीयं मासगुरु । भिक्षानिवृत्तेषु साधुषु गुरवो
A. प्रेर्यते ।