________________
जइ - जीयकप्पो भणन्ति-आर्य ! साधवो न भुअते, स प्राह-नूनं साधूनां न जीर्णम् । एवमुक्ते सर्वे समुद्दिशन्ति तस्य पुनस्तृतीयं मासगुरु । भूयोऽपि प्रतिक्रमणवेलायां भणन्ति-आर्य ! साधवो न प्रतिक्रामन्ति, उपशमं कुरु । स प्रत्युत्तरमाह-नूनं निरतीचाराः श्रमणास्तेन न प्रतिक्रामन्ति । एवमुक्ते सर्वेऽपि प्रतिक्रामन्ति । तस्य पुनश्चतुर्गुरुकम् । एवं प्रभातकालेऽधिकरणे उत्पन्ने विधिरुक्तः । अथाऽन्यदा स्वाध्याये प्रस्थापिते यदि पठतामधिकरणमुत्पन्नं ततस्त्रयो नोदनाकालाः । द्वौ मासगुरुको । भिक्षा हिण्डमानानामधिकरणे उत्पन्ने द्वौ नोदनाकालौ, एकं मासगुरु । भुक्तानामधिकरणे उत्पन्ने एको नोदनाकालः । अत्र नास्ति मासगुरु । अनुपशान्तस्य प्रतिक्रमणे कृते चतुर्गुरुकमेव भवति ।।७३ ।।
एवं दिवसे दिवसे चाउक्कालं तु सारणा तस्स । जइ वारि न सारेई गुरूण गुरुगो अततिवारे ।।७४ ।।
__(नि०भा० २८००, बृ०क० ५७६६) व्याख्या-एवमनुपशान्तस्य दिवसे दिवसे चतुष्कालं स्वाध्यायप्रस्थापनादिरूपं तस्य सारणा कर्त्तव्या । यति यावतो वारान् आचार्यो न सारयति, तति तावतो वारान् गुरूणामाचार्याणां मासगुरुका भवन्ति । एवं दिने दिने सारणाविधिरगीतार्थस्य कर्त्तव्यो यस्तु गीतार्थः स यद्येकदिनं स्वाध्यायभिक्षा-ऽभक्तार्था-ऽऽवश्यकलक्षणेषु चतुर्षु स्थानेषु सारितस्तदा परतस्तमसारयन्नपि गुरुः शुद्धः । यदि पुनस्तमगीतार्थं गीतार्थं वा गुरुर्न सारयति, ततो द्वयोरप्याऽऽचार्यस्यानुपशाम्यतश्च प्रायश्चित्तम् । अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपि नास्ति प्रायश्चित्तम्। यस्तु गुरुरगीतार्थं न नोदयति तस्य प्रायश्चित्तम् ।।७४।।
गच्छो उ दुन्नि मासे पक्खे पक्खे इमं परिहरेइ । भत्तटुं सज्झायं वंदणऽ(णाऽऽ ?)लावं तउ परेणं ।।७५।।
(नि०भा० २८०२, बृ०क० ५७६८) व्याख्या-एवमनुपशाम्यन्तं गच्छो द्वौ मासौ सारयति । इदं पुनः पक्षे पक्षे गच्छः परिहरति । तद्यथाअनुपशान्तस्य पक्षे गते गच्छस्तेन साई भक्तार्थं न करोति, न गृह्णाति न वा किमपि तस्य ददातीत्यर्थः । द्वितीये पक्षे गते स्वाध्यायं तेन समं न करोति । तृतीये पक्षे गते बन्दनं न करोति । चतुर्थोऽपि पक्षो यदा गतो भवति, ततः परमालापमपि तेन सार्द्धं वर्जयति ।।७५।।
आयरिओ चउमासे भुंजइ चउरो उ देइ सज्झायं । चउरो वंदणलावं तेण परं मूलनिच्छुभणा ।।७६ ।।
(नि०भा० २८०३, बृ०क० ५७६९)