Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 273
________________ १०४ • मिथ्यानयसमूहस्य सम्यक्त्वोपदर्शनम् • द्वात्रिंशिका - २/१४ अत एवान्यत्रार्ण्यविसंवादिनोऽर्थस्य दृष्टिवादमूलकत्वात्तन्निराकरणे दृष्टिवादस्यैव तत्त्वतो निराकरणमिति व्यक्तमुपदेशपदे || १४ || सम्यग्ज्ञानत्वमविरुद्धम् । तदुक्तं बृहद्द्रव्यसङ्ग्रहे दुरभिणिवेसविमुक्कं णाणं सम्मं खु ← (बृ.द्र. सं.४१) इति । युक्ततरञ्चैतद्, दृष्टप्रमाण-नयस्वरूपसिद्धान्तसद्भावो हि विद्वान् सर्वमेव स्वपरतन्त्रोक्तमर्थं स्थानाऽविरोधेन प्रतिपद्यते, न तु तत्रैकान्तेन विप्रतिपद्यते इति । तदुक्तं सम्मतितर्के निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमओ विभयइ सच्चे व अलिए व त्ति ।। ← (सं.त. १ /२८) इति। अत एव = स्वकीयतन्त्रोक्तस्य परकीयतन्त्रोक्तस्य वा न्यायबलाऽऽयातस्यार्थस्य समर्थनसामर्थ्यतुल्यत्वे एव माध्यस्थ्यस्य सम्भवात् अन्यत्रापि = परदर्शनेऽपि दर्शितस्य अविसंवादिनः = युक्तिसङ्गतस्य अर्थस्य दृष्टिवादमूलकत्वात्; सर्वस्यापि सद्वचनस्य परसमयेऽपि स्वसमयाऽनन्यत्वात् । तदुक्तं धर्मबिन्दुवृत्तौ तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित्तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्येति ← (ध. बि. १ / ३ गा. वृत्ति) । युक्तञ्चैतत्, सापेक्षसर्वनयसमूहस्यैव स्वसमयत्वात् । तदुक्तं विशेषावश्यकभाष्ये मिच्छत्तमयसमूहं सम्मत्तं ← (वि.आ.भा. ९५४) । अतः तन्निराकरणे = परदर्शनगतसद्वचनस्य तदर्थस्य वा निराकृतौ दृष्टिवादस्यैव = स्वसमयस्यैव तत्त्वतः = परमार्थमाश्रित्य निराकरणमिति व्यक्तं उपदेशपदे जं अत्थओ अभिण्णं अण्णत्था सद्दओऽवि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं । । सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मि ।। ← (उप.प.६९३/६९४) इत्यत्र कारिकयोः । परसमयवर्तिनामपि मार्गानुसारिणां सत्यतत्त्वरक्षणपरतयैकान्तो न शोभते परदर्शनसिद्धान्तनिराकरणे, किम्पुनः स्याद्वादिनाम् ? प्रकृते सच्चमनुरक्खता भारद्वाज ! विञ्जुना पुरिसेन नालमेत्थ एकंसेन निट्टं गन्तुं - इदमेव सच्चं मोघमञ्जं”ति ← (म.नि. २/५/ ५ / ४२८, पृ. ३८९) मज्झिमनिकायवचनमपि यथागममनुयोज्यं स्वपरसमयपरमार्थप्रवीणैः । 'जयइ सुआणं पभवो' (नं.सू.२) इति नन्दिसूत्रस्य वृत्तौ श्रीमलयगिरिसूरिभिरपि परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारता - स्वर्गापवर्गादिप्राप्तिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः । न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वात् ← (नं.सू.वृ. पृ. १५) इत्युक्तम् । श्रीसिद्धસમાનરૂપે હોવા સ્વરૂપ માધ્યસ્થ્યપૂર્વકનો ચિંતાયોગ તેની પાસે હોય છે. (મતલબ કે પ્રત્યક્ષ વગેરે પ્રમાણથી અવિરૂદ્ધ, યુક્તિસંગત, તેમ જ શિષ્ટ પુરુષને માન્ય એવો પદાર્થ ચાહે સ્વદર્શનમાં બતાવેલો હોય કે ચાહે પરદર્શનમાં બતાવેલો હોય પરંતુ તે બન્નેનું સમર્થન સમાનરૂપે કરવાનું સામર્થ્ય ચિંતાજ્ઞાનવાળા પાસે હોય છે. તેથી જ તેને સ્વદર્શનનો આગ્રહ કે પરદર્શનનો દ્વેષ હોતો નથી.) માટે જ અન્યદર્શનમાં પણ કહેલા અવિસંવાદી પદાર્થો દૃષ્ટિવાદમૂલક = દ્વાદશાંગીમૂલક = જૈનાગમમૂલક કહેવામાં આવે છે. માટે ‘જૈનાગમમૂલક અન્યદર્શનમાં કહેલા પદાર્થોના અપલાપમાં તો વાસ્તવમાં દૃષ્ટિવાદનો = જૈનાગમનો अपसाथ थाय' - खावुं उपदेशपध्मां स्पष्ट भगावेस छे. (२/१४) १. हस्तादर्शे 'प्यविसंवादि' इति पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478