Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 461
________________ • स्वेनैव स्वकर्मणो भोग्यतास्थापनम् यदि चैवमसद्भूतार्थविषयं कुशलचित्तं प्रामाणिकं स्यात्तदा ‘मय्येव निपतत्वेतज्जगद्दुश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात्सर्वदेहिनाम् ।।' ( अष्टक २९ / ४ ) इतिवत् ' अज्ञानानां यदज्ञानमास्तां मय्येव तत्सदा । मदीयज्ञानयोगाच्च चैतन्यं तेषु सर्वदा ।।' (अष्टक - २९/६ वृत्ति) इत्यपि परेण पठनीयं स्यात् ।। २४ ।। किञ्च → सयंकतानि पुञ्ञानि तं मित्तं सांपरायिकं ← (सं. नि. १/१/५३) इति संयुत्तनिकायवचनं, → पजा परम्हि लोके सकम्मुना हञ्ञति पापधम्मो ← (म.नि. २ /३६/४) इति मज्झिमनिकायवचनं, → उभो पुञ्ञ च पापं च यं मच्चो कुरुते इध । तं हि तस्स सकं होति तं व आदाय गच्छति ।। ← (सं. नि. १/३/४ ) इति संयुत्तनिकायवचनं पापकारी उभयत्थ सोचति ← (ध.प. १/१५) इति धम्मपदवचनं सचे च पापकं कम्मं करिस्सथ करोथ वा । न वो दुक्खा पमुच्चत्थि उपेच्च वि पलायतं ।। ← (उदा. ५/४) इति उदानवचनं नहि नस्सति कस्सचि कम्मं, एतिह नं लभतेव सुवामि ← (सु.नि. ३/३६/१० ) इति सुत्तनिपातवचनं, यहिं यहिं गच्छति पुञ्ञकम्मो हिं तहिं मोदति कामकामी ← (वि.व.२/३४/४०० ) इति विमानवत्थुवचनं सुखं अकतपुञ्ञानं इध नत्थि परत्थ च । सुखं च कतपुञ्ञानं इध चेव परत्थ य ।। ← (पे.व.१/२७/४०६ ) इति पेतवत्थुवचनं, अत्तना व कतं पापं अत्तना संकिलिस्सति । अत्तना अकतं पापं अत्तना व विज्झति ।। ← (म.नि. १/२/८) इति महानिद्देसपालिवचनं नत्थऽञ्ञ कोवि मोचेता ← (चु.नि.पा.२/५/३३) इति चुल्लनिद्देसपालिवचनं च परकीयपुण्य-पापयोः स्वस्मिन् सङ्क्रमाऽभ्युपगमेऽनुपपन्नमेव स्यादित्यूहनीयम् । २८८ Jain Education International • अभ्युपगमवादेनाह- 'यदि चेति । 'अज्ञानानामित्यादिकं अपि परेण बौद्धेन कुशलचित्तरूपेण पठनीयं स्यात् । न चैतदिष्टं परस्यापि सुगतस्याऽज्ञानित्वापत्तेः । न च स्वान्यज्ञानाज्ञानयोः परेषु स्वस्मिंश्चोपसङ्क्रमाऽसम्भवान्नैतादृशचित्तस्य कुशलत्वाभ्युपगमः श्रेयानिति वाच्यम्, तुल्यन्यायेन 'स्वान्यधर्माऽधर्मयोः परेषु स्वस्मिंश्चोपसङ्क्रमाऽसम्भवान्नैतादृशचित्तस्य कुशलत्वाङ्गीकारः श्रेयानिति वदतो मुखं पिधातुमशक्यमेव सुगतानुयायिनामिति । न चाज्ञानस्य हेयत्वान्न स्वस्मिन् तदागमनकल्पना श्रेयसीति वक्तव्यम्, अधर्मस्य हेयत्वान्न स्वस्मिन् तदागमनकल्पना कल्याणकारिणीत्यस्यापि तुल्यत्वात् । न च પ્રાણીઓમાં થઈ શકતો હોત તો તેમની ભાવના મુજબ સૌપ્રથમ જગતના તમામ પ્રાણીઓનો મોક્ષ થવો જોઈએ પછી જ અંતે બુદ્ધનો મોક્ષ થવો જોઈએ. પરંતુ હકીકત આનાથી તદન વિપરીત છે. એમ બૌદ્ધ શાસ્ત્રો જ બતાવે છે. માટે કુશચિત્તનો વિષય વાસ્તવિક નહિ પણ કાલ્પનિક હતો- એમ ફલિત થાય છે. જો આ રીતે કાલ્પનિક વિષયથી રંગાયેલ હોવા છતાં કુશલચિત્તને પ્રામાણિક માનવામાં આવે તો જેમ બૌદ્ધ ગ્રન્થકારો કહે છે કે “જગતના પાપો મારામાં જ આવી જાવ અને મારા સચ્ચારિત્રના યોગથી જગતના તમામ જીવોની મુક્તિ થાવ.” તેમ તેમણે એમ પણ કહેવું જોઈએ કે “અજ્ઞાની લોકોનું અજ્ઞાન મારામાં જ આવી જાવ અને મારા જ્ઞાનના યોગથી જગતના પ્રાણીઓમાં સર્વદા ચૈતન્ય જ્ઞાન રહો.” આવી ભાવનાવાળા ચિત્તને પણ કુશલચિત્ત તેમણે કહેવું પડશે. (૪/૨૪) For Private & Personal Use Only द्वात्रिंशिका -४/२४ = www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478