Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 464
________________ • परार्थभावनाकर्तव्यतामीमांसा • २९१ भङ्गाऽन्तःपातित्वसम्भवात् । तदुक्तं- 'बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि' (द्वा द्वा.४/२५)। . ननु चतुर्थभङ्गस्थवाङ्-मनसोर्भगवत्यपि सम्भवात् कथं न कुशलचित्तयोग इति चेत् ? न, वैकल्पिकभक्तिभावप्रयुक्तस्य चतुर्थभङ्गस्य प्रार्थनारूपस्य भगवत्यनुपपत्तेः ।। ‘एवं च चिन्तनं ह्येतत्' इति अर्थस्तु प्रकट एव - (अ.प्र.२९/६ वृ.) इत्येवमुपदर्शिता जिनेश्वरसूरिभिः । ___एतेन → सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः । त्यक्तव्यं चेन्मया सर्वं परं सत्त्वेषु दीयताम् ।। (बो.चर्या.३/११) इति बोधिचर्यावतारे बौद्धवचनं, → प्रायेण देव-मुनयः स्वविमुक्तिकामाः, मौनं चरन्ति विजने न परार्थनिष्ठाः । नैतान् विहाय कृपणान् विमुमुक्षुरेकः - (भाग.स्कन्ध७) इति भागवते प्रह्लादवचनं च व्याख्यातं द्रष्टव्यम्, स्वीयप्रशस्तभावोत्कर्षकत्वेन प्रशस्तरागावस्थायां प्रशस्तत्वात् । चतुर्थभङ्गान्तःपातित्वसम्भवात् = असत्यामृषाभिधानचतुर्थभाषायामन्तर्भावसम्भवात् । भाषारहस्ये → सा जायणी य णेया जं इच्छियपत्थणा परं वयणं । भत्तिपउत्ता एसा विणा वि विसयं गुणोवेया ।। 6 (भा.रह.७४) इति गाथायां या याचनी नाम्नी व्यवहारसत्या भाषा दर्शिता तस्यामन्तर्भावसम्भवादिति यावत् । यदि च तादृशप्रार्थनाया मनोयोगविशेषरूपताऽभिप्रेता तर्हि असत्यमृषामनोयोगान्तःपातित्वसम्भवादित्यर्थो बोध्यः ।। नन्वेवं बोधिसत्त्वाभिमतकुशलचित्तस्य व्यवहारभाषारूपाऽसत्यामृषात्मकचतुर्थभाषा-तादृशमनोयोगान्यतररूपत्वाभ्युपगमे तु चतुर्थभङ्गस्थवाङ्मनसोः = असत्यामृषाभिधानवचनयोग-मनोयोगयोः भगवति वीतरागे अपि सम्भवात् = जैनागमेऽभ्युपगमात् कथं न कुशलचित्तयोगः स्याद्वादिभिरभ्युपगतः इति चेत् ? न, लवसप्तमसुरादिसंशयाऽपहारकृते प्रथम-चरमान्यतरभङ्गान्तःपातिनो द्रव्यमनोयोगादेः वीतरागे सर्वज्ञे भगवति सत्त्वेऽपि ध्वस्तमोहत्वेन मोहनीयोदयप्रयुक्तसमस्तविकल्पदशासङ्क्षोभस्य विरहात् वैकल्पिकभक्तिभावप्रयुक्तस्य = मोहनीयविपाकोदयप्रयुक्तविकल्पगर्भितसकलजीवोद्देश्यक-दुःखपरिजिहीर्षालक्षणभक्तिभावप्रयुक्तस्य चतुर्थभङ्गस्य असत्यामृषाभाषा-मनोयोगान्यतररूपस्य प्रार्थनारूपस्य भगवति वीतरागे अनुपपत्तेः = असम्भवात् । ઉછાળો લાવવા ઉપયોગી બનવાથી તેનો સમાવેશ વ્યવહાર મનોયોગમાં સંભવી શકે છે. અષ્ટકજીમાં જણાવેલ છે કે કુશલચિત્ત સરાગ દશામાં બોધિ વગેરે પ્રાર્થનાતુલ્ય પ્રશસ્ત પણ છે.” શંકા :- સત્ય, અસત્ય, મિશ્ર અને વ્યવહાર- આ રીતે મનોયોગ અને વચનયોગના ચાર ભેદ બતાવેલ છે. તેમાંથી વ્યવહાર ભાષા તથા વ્યવહાર મનોયોગ તો વીતરાગ ભગવંતમાં પણ સંભવે છે. તથા કુશલચિત્ત તો વ્યવહાર મનોયોગ સ્વરૂપ જ છે. તેથી વીતરાગ ભગવંતમાં ચતુર્થ વ્યવહાર મનોયોગ = અસત્ય અમૃષા મનોયોગરૂપ કુશલચિત્ત શા માટે ન સંભવે ? સમાધાન :- વિકલ્પાત્મક ભક્તિભાવપ્રયુક્ત બોધિપ્રાર્થનાદિરૂપ વ્યવહારમનોયોગ ભગવાનમાં સંભવતો નથી. કારણ કે ભગવાનમાં મોહનીયકર્મ બંધ-ઉદય-સત્તામાં રહેલ ન હોવાથી તથાવિધ વિકલ્પ જ સંભવતો નથી. વીતરાગને પ્રાર્થનારૂપ વિકલ્પાત્મક ચતુર્થ મનોયોગ નિષિદ્ધ છે. વિશિષ્ટ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478