Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• लोकतत्त्वनिर्णयसंवादः •
२९७
आत्माऽयमर्हतो ध्यानात्परमात्मत्वमश्नुते' । रसविद्धं यथा ताम्रं स्वर्णत्वमधिगच्छति ।। ३० ।। रुद्रो रागवशात् स्त्रियं वहति यो हिंस्रो ह्रिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति कः ? ।। ब्रह्मा लूनशिरा हरिर्दृशि सरुक् व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि । । ★ बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् ।
श्रुत्वा वचः सुचरितं च पृथग् विशेषं वीरं गुणातिशयलोलतया श्रिताः स्मः ।। नास्माकं सुगतः पिता न रिपवस्तीर्थ्या धनं नैव तैर्दत्तं नैव तथा जिनेन न हृतं किञ्चित्कणादादिभिः । किं त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो वयम् ।। हितैषी यो नित्यं सततमुपकारी च जगतः कृतं येन स्वस्थं बहुविधरुजार्त्तं जगदिदम् । स्फुटं यस्य ज्ञेयं करतलगतं वेत्ति सकलम् प्रपद्यध्वं सन्तः सुगतमसमं भक्तिमनसः ।। असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा I ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र ! तेऽप्यामरीं सम्पदमाप्नुवन्ति ।।
यदा रागद्वेषादसुर- सुररत्नाऽपहारणे, कृतं मायावित्वं भुवनहरणाऽऽसक्तमतिना । तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विर्निमुक्तं वीरं न नमति जनो मोहबहुलः ।। न्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं सर्वाकारं विविधमसमं यो विजानाति विश्वम् । ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा हली वा यस्याऽचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये ।।
← (लो.त.नि.१/२२-३७) इति । यथोक्तं बुद्धिसागरसूरिवरैरपि जैनगीतायां
केवलज्ञानयोगेन, वीरविष्णुः प्रभुः स्मृतः । रागाद्यलङ्कृतः कोऽपि, नाम्ना विष्णुर्न सद्गुणैः ।। चतुर्मुखोपदेशित्वात्, वीरब्रह्मैव वस्तुतः । रागाद्यलङ्कृतः कोऽपि, नाम्ना ब्रह्मा न वस्तुतः रागद्वेषविनाशित्वात्, महादेवः सदाशिवः । महावीरः प्रभुर्मान्यः, नान्यो नाम्ना गुणैर्विना ।।
← (जै.गी. १२६-७-८ ) । तदुक्तं विद्यानन्दिस्वामिना अपि पात्रकेशरिस्तोत्रे प्रशान्तकरणं वपुर्विगतभूषणं चापि ते, समस्तजनचित्तनेत्रपरमोत्सवत्वं गतम् । विनाऽऽयुधपरिग्रहात् जिन ! जितास्त्वया दुर्जयाः, कषायरिपवः परैर्न तु गृहीतशस्त्रैरपि ।। ← (पा.के. १७) इति ।
अत एव → तं त्यक्त्वा तादृशं देवं यः सेवेताऽन्यदेवताम् । स हि भागिरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ।। ← (शि.गी. १/३०) इति शिवगीतावचनमप्यर्हन्तमेवोद्दिश्य परमार्थतः सङ्गच्छत इति द्रष्टव्यम् । प्रकृते वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र ! मुद्राऽपि तवाऽन्यदास्ताम् ।। ← ( अयो. व्य.द्वा. २०) इति अयोगव्यवच्छेदद्वात्रिंशिकावचनमपि साक्षितयाऽवसेयम् ।।४ / २९ ।।
ઉપાસના વગર તેઓ પરમપદ મોક્ષને મેળવવાના નથી. (૪/૨૯)
ગાથાર્થ :- અરિહંતના ધ્યાનથી આ આત્મા પરમાત્મપણાને પ્રાપ્ત કરે છે. જેમ સુવર્ણરસથી વીંધાયેલ
१. मुद्रितप्रतौ 'मश्रुते' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478