Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२९६
• कष्टसहनेऽपि अर्हदुपासनां विना मोक्षऽसम्भवः • द्वात्रिंशिका-४/२९ हन्त ! अर्हन्तं वीतरागं अनासेव्य परं पदं न गन्तारः । क्वचिद् हस्तादर्श ‘परं जिनं अनन्तारः' इति पाठः । सोऽपि शुद्धः । युक्तञ्चैतत्, विषयकृतशुद्धिविरहेण शुद्धिप्रकर्षाभावात् । ततश्च →
स एव लभते ज्ञानं मद्भक्तः श्रद्धयाऽन्वितः । नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ।। नाहं तपोभिर्विविधैर्न दानैर्नाऽपि चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ।। 6 (शि.गी.१४/३९,१७/२६) इति शिवगीताकारिकातात्पर्यमपि वीतरागविषयिण्यां भक्त्यामवसेयम् ।
इत्थञ्च → ईश्वरकृपया परमपक्वचित्ता जानन्ति (सि.सा.१/९) इति सिद्धान्तसारोपनिषद्वचनमपि 'ईश्वरकृपा'पदस्य वीतरागभक्तिपरत्वे समीचीनमवसेयम्, ‘सरागे देवत्वबुद्धेरेव च मिथ्यात्वादिति (द्वा. ५/१९ पृष्ठ-३३३) वक्ष्यतेऽनन्तरद्वात्रिंशिकायाम् ।
एतेन → कुर्युश्चेत् कर्म मच्चित्ता भावशुद्धिपुरस्सरम् । अधिकुर्युस्तदाऽवश्यं पूर्णं धर्मं सनातनम् ।। - (शं.गी.१/१२६) इति शम्भुगीतावचनमपि व्याख्यातम्, वीतरागभक्ति-चित्तशुद्धि-भवविरक्त्यादिना पूर्णशुद्धसाधुधर्माधिकारप्राप्तेः । तदुक्तं अयोगव्यवच्छेदद्वात्रिंशिकायां अपि → परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ।। (अ.व्य.द्वा.१४) इति । न चैवमन्यलिङ्गसिद्धभेदोच्छेदापत्तिरिति शङ्कनीयम्, तत्रापि परमार्थतोऽर्हत एवोपासनीयत्वाभ्युपगमादिति दिक् ।। प्रकृते सोपयोगिन्यो लोकतत्त्वनिर्णयगाथा उपदर्श्यन्ते →
प्रत्यक्षतो न भगवानृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसम्प्रभावात् ज्ञात्वा विचारयत कोऽत्र पराऽपवादः ।। विष्णुः समुद्यतगदाऽऽयुधरौद्रपाणिः शम्भुर्ललन्नटशिरोऽस्थिकपालमाली । अत्यन्तशान्तचरिताऽतिशयस्तु वीरः कं पूजयाम उपशान्तमशान्तरूपम् ?।। दुर्योधनादिकुलनाशकरो बभूव विष्णुर्ह रस्त्रिपुरनाशकरः किलाऽऽसीत् । क्रौञ्च गुहोऽपि दृढशक्तिहरं चकार वीरस्तु केवलजगद्धितसर्वकारी ।। पीड्यो ममैष तु ममैष तु रक्षणीयो वध्यो ममैष तु न चोत्तमनीतिरेषा । निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धेर्वीरस्य सन्ति रिपवो न च वञ्चनीयाः ।। रागादिदोषजनकानि वचांसि विष्णोरुन्मत्तचेष्टितकराणि वचांसि शम्भोः । निःशेषदोषशमनानि मुनेस्तु सम्यग्, वन्द्यत्वमर्हति तु को नु विचारयध्वम् ।। यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्रवृत्तः ।
रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह ब्रूत चिरं विचिन्त्य ।। शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधम्, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयातिान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः ।। न यः शूलं धत्ते न च युवतिमड्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् । विनिर्मुक्तं क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478