Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 467
________________ २९४ • तीर्थङ्करस्याऽमूढलक्षता • द्वात्रिंशिका-४/२७ 'परार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । अमूढलक्षो भगवान् महानित्येष मे मतिः ॥२७॥ न परं बिभर्ति = पुष्णातीति आत्मम्भरिस्तद्भावं पिशुनयति = सूचयतीति ‘आत्मम्भरित्वपिशुना', कुत एतदित्याह यतोऽसौ तेषां बुद्धशरीरापकारिणां व्याघ्रादीनां येऽपाया दुर्गतिगमनादयस्तान्नापेक्षत इत्येवंशीला 'तदपायानपेक्षिणी', आत्मम्भरित्वं परापकारानपेक्षित्वं च महद्दषणं महताम् (अ.२९/७ वृत्ति)।।४/२६।। भगवन्महत्त्वे स्वाभिप्रायमाविष्करोति- 'परार्थे'ति । परार्थमात्ररसिकः = स्वरसतो निर्व्याजतात्त्विकपरहितकरणैकमति । तदुक्तं ललितविस्तरायां ‘आकालमेते परार्थव्यसनिन' (ल.वि.पुरुषोत्तमपद,पृ.२४) इति । केचित्तु ‘पदार्थमात्ररसिक' इति पाठमङ्गीकृत्य राग-द्वेषाऽकरणेन पदार्थत्वावच्छिन्नज्ञानशाली' इति व्याख्यानयन्ति । तच्चिन्त्यम् । ___ ततः = परार्थमात्ररसिकत्वतः अनुपकृतोपकृत् = अनुपकारिणि हितकारकः, उपकार्यनुपकार्यपकारिभेदमपहाय निर्व्याजकरुणया परहितकरणशील इति यावत् । ततश्च नोपकार्यपकारिणोरनुपग्राह्यतापत्तिः। वरबोधिसमन्वितत्वात्तादृशाशयोऽत्रावगन्तव्यः । तदुक्तं योगबिन्दौ → मोहान्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि ।। अहमेतानतः कृच्छ्राद् यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ।। करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः ।। तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ।। - (यो.बि.२८५-२८८) इति । सम्यग्दृष्टिद्वात्रिंशिकायां (पृ.१०२९) स्पष्टीभविष्यतीदम् । अमूढलक्षः = असम्भ्रान्तलक्ष्यः = सर्वज्ञेयाऽविपरीतवेत्ता, अविसंवादि-स्वपरकल्याणनिबन्धनभावनाज्ञानसमन्वितत्वात् । ‘अमूढलक्षो हि भगवान्' (प्रव.सारो.८५६) इति प्रवचनसारोद्धारवृत्तिवचनमप्यत्र स्मर्तव्यम् । अत एव श्रीवीरः प्रथमसमवसरणे विशिष्टदेशनाकरणे न प्रवृत्तः । तदुक्तं आवश्यकनिर्युक्ती → 'सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलक्खो न कहेइ' 6 (आ.नि.५६४) इति । एतेन स्वहितात्पराऽकल्याणमापादयतः स्वाऽहितात्परकल्याणमुपजनयतः, स्वाऽहिताद्वा पराऽकल्याणमाक्षिपतो देवस्याऽमूढलक्ष्यत्वं निरस्तम्, तादृग्भावनाज्ञानापेतत्वात् । इति हेतोः 'एषः वीतरागो भगवान् महान् = महत्पदवाच्यः' इति मे = ग्रन्थकृतो महोपाध्याययशोविजयगणिवरस्य વાઘ વગેરે અન્ય જીવોને થનારા નુકશાનનો કોઈ વિચાર નથી. ૯ (૪/૨૬) આ રીતે વીતરાગ તીર્થકરમાં મહત્ત્વની અલગ-અલગ પ્રકારે સિદ્ધિ કરીને ઉપસંહાર કરતા ગ્રન્થકારશ્રી ૬ શ્લોક દ્વારા જણાવે છે કે – ગાથાર્થ :- “વીતરાગ તીર્થકર ભગવાન પરોપકાર કરવામાં જ કેવળ રસિક છે. તેથી જ પોતાના ઉપર ઉપકાર ન કરનારા જીવો ઉપર પણ ઉપકાર કરનારા છે. તથા તેમને પોતાના લક્ષ્યની બાબતમાં કોઈ મૂઢતા નથી. માટે તે જ મહાન છે' આ પ્રમાણે મારી (ગ્રન્થકારશ્રી મહોપાધ્યાયજી મ.ની) બુદ્ધિ हे छे. (४/२७) १. मुद्रितपुस्तकादौ ‘पदार्थ...' इत्यशुद्धः पाठः । २. मुद्रितपुस्तकादौ 'अगूढलक्ष' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478