Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• तीर्थङ्करस्य परमदेवत्वनिर्णयः •
२९५ अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ।।२८।। परः सहस्राः शरदां परे योगमुपासताम् । 'हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ।।२९।। मतिः स्फुरति ।।४/२७।।
महतो वीतरागस्य तीर्थङ्करस्य नाम्नोऽपि माहात्म्यमाह- 'अहमि'ति । → अर्हमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः 6 (ऋ.मं.३) इति ऋषिमण्डलस्तोत्रवचनात्, → शब्दब्रह्मेति कीर्त्तितं प्रणवाख्यं 6 (बृ.परा.१२/२११) इति बृहत्पराशरस्मृतिवचनाद् → अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते - (यो.शि.३/२) इति योगशिखोपनिषदादिवचनाच्च यस्य कस्यापि चित्ते= मनसि सर्वदा ‘अर्हमि'त्यक्षरं 'अहँ, ॐ, अरिहंत, अरहंत, नमो अरिहंताणं' इत्याद्याकारेण नाद-लयादिरूपेण स्फुरति ततो हेतोः सः अर्हन्नामध्याता शब्दब्रह्मणः = शब्दत्वावच्छिन्नादऽपराद् ब्रह्मणः सकाशात् काम-क्रोधादिक्षयेण परं = निर्द्वन्द्वमतीन्द्रियमनिर्वाच्यमदृश्यं स्वसंवेद्यं ब्रह्म अधिगच्छति, शब्दब्रह्मप्राप्त्युत्तरमेव परब्रह्मलाभसम्भवात् । तदुक्तं अध्यात्मोपनिषदि ज्ञानसारे च → अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्मानुभवैरधिगच्छति ।। - (अध्या.उप.२/२५, ज्ञा.सा.२६/८) इति । तदुक्तं महाभारते त्रिपुरातापिन्युपनिषदि मैत्रायण्युपनिषदि ब्रह्मबिन्दूपनिषदि चापि → शब्दब्रह्मणि निष्णातः परं ब्रह्माऽधिगच्छति - (महा.शांतिपर्व.अ.२३२/३०, अ.२७०/२, त्रिपु.५/१७, मैत्रा.७/२२, ब्र.बि.१७) इति ।
परब्रह्मस्वरूपं तु प्रणवोपनिषदि → यस्मिन् स लीयते शब्दः तत् परं ब्रह्म गीयते । सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ।। - (प्रण.१३) इत्येवं, अन्नपूर्णोपनिषदि च → सर्वसङ्कल्पसंशान्तं प्रशान्तघनवासनम् । न किञ्चिद् भावनाकारं यत् तद् ब्रह्म परं विदुः ।। 6 (अन्न.५/४८) इत्येवं, अध्यात्मोपनिषदि → अखण्डं सच्चिदानन्दं परं ब्रह्म - (अध्या.३२) इत्येवं, परब्रह्मोपनिषदि → यदक्षरं परं ब्रह्म तत् (पर.१) इत्येवं, रुद्रहृदयोपनिषदि → परं ब्रह्म सनातनं सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् + (रु.ह.२६) इत्येवं, गणेशपूर्वतापिन्युपनिषदि → एतद् अक्षरं परं ब्रह्म 6 (ग.पू.२) इत्येवं सङ्क्षपेण, बृहत्पराशरस्मृतौ → समत्वं = परमं ब्रह्म - (बृ.परा.१२/२११) इत्येवं, योगशिखोपनिषदि च → परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् + (यो.शि.२/१६) इत्येवमुपदर्शितमित्यवधेयं स्व-परतन्त्रमर्मवेदिभिः ।
प्रकृते → उपास्यं तत् सदा ब्रह्म यावत् साधकतां वहेत् । बह्वायासाद् विदित्वा यत् संसरेद् नेह मानवः ।। - (बृ.परा.१२/२०९) इति बृहत्पराशरस्मृतिवचनमपि यथातन्त्रमनुयोज्यम् ।।४/२८।। __परे = अनेकान्तवादबाह्याः शरदां परःसहस्राः शत-सहस्र-लक्षसंवत्सरं यावत् योगं उपासताम् ।
थार्थ :- 'अर्ह' मा प्रभारी अक्षरी ना मनमा सहा रायमान थाय छ त ममाथी ५२ प्रमने प्रात ३ छ. (४/२८)
ગાથાર્થ :- અન્ય ધર્મીઓ હજારો વર્ષો સુધી યોગની ઉપાસના કર્યા કરો, પણ અરિહંત વીતરાગની १. मुद्रितप्रतौ 'यस्स' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगमुनपा...' इत्यशुद्धः पाठः । ३. हस्तादर्शे परं जिनमनन्तारो' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478