Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 456
________________ • विवाह-शिल्पादिदर्शनप्रयोजनम् . २८३ एवं विवाहधर्मादौ तथा शिल्पनिरूपणे । न दोषो ह्युत्तमं पुण्यमित्थमेव विपच्यते ।। किं चेहाऽधिकदोषेभ्यः सत्त्वानां रक्षणं तु यत्। उपकारस्तदेवैषां' प्रवृत्त्यङ्गं तथाऽस्य च।। (अष्टक २८/२-६) ।।२१।। नागादे रक्षणायेव गर्ताद्याकर्षणेऽत्र न । दोषोऽन्यथोपदेशेऽपि स स्यात्परनयोद्भवात् ॥२२॥ भगवतः सदोषमित्यासज्जितम्, तत्र परिहारातिदेशमाह - यथा राज्यादि(राज्य)दाने न दोषो महाधिकरणत्वाभावाद् गुणावहत्वाच्च, एवं = अनेनैव प्रकारेण, विवाहः परिणयनं तद्रूपो धर्मः समाचारो व्रतबन्धो वा 'विवाह-धर्मः' तदादौ तत्प्रभृतिके, आदिशब्दात् राजकुलग्रामधर्मादिपरिग्रहः, तथाशब्दः समुच्चये, शिल्प-निरूपणे = घटलोहचित्रवस्त्रनापितव्यापारोपदर्शने, किमित्याह, न दोषो = नैवाशुभकर्मबन्धलक्षणं दूषणमस्ति भगवतः, इह प्रतिज्ञायां हेतुमाह, हिशब्दो यस्मादर्थः, ततश्च यस्मात्, उत्तम = प्रकृष्टं तीर्थकरनामकर्मलक्षणम्, पुण्यं = शुभकर्म, इत्थमेव = अनेनैव विवाह-शिल्पादिनिरूपणप्रकारेण, विपच्यते = विपाकं याति, स्वफलं ददातीत्यर्थ इति ।।५।। इहैवाभ्युच्चयमाह किञ्चेति उत्तरपक्षस्याभ्युच्चयप्रतिपादनार्थः, इहेति राज्यदानविवाहधर्मशिल्पादिप्ररूपणेषु, अधिकदोषेभ्यः = राज्यादिदानाधिकरणलक्षणदोषापेक्षया ये अधिका अतिरिक्ता दोषाः परस्परोपघात-पारदार्यादयस्तेभ्यः, सत्त्वानां = असुमतां, रक्षणं = त्राणं, तुशब्दः पुनरर्थः, प्रयोगश्चास्य यत् = पुनरित्येवं द्रष्टव्यः, उपकारो = हितकरणम्, तदेव = रक्षणमेव, एषां = सत्त्वानाम्, किञ्चान्यत् प्रवृत्त्यङ्ग = राज्यादिदानप्रवृत्तावङ्गं कारणं, तदेवेति प्रकृतम्, तथा इति वाक्यान्तरत्वख्यापनार्थम्, अस्य = जगद्गुरोः, चः समुच्चयार्थः, अधिकतरानर्थपरिहारलक्षणोपकारकरणाय भगवतस्तत्र प्रवृत्तिरिति भावना - (अ.प्र.२८/२-६ वृत्ति) इति । तदुक्तं स्तवपरिज्ञायां पञ्चवस्तुके पञ्चाशके च → एत्तो च्चिय णिद्दोसं सिप्पादिविहाणमो जिणिंदस्स । लेसेण सदोसं पि हु बहुदोसनिवारणत्तेण ।। - (स्त.प.१५७/पं.व.१२६६/पञ्चा.७/३५) इति । तत्परिभावना तत्रैव → वरबोहिलाभओ सो सव्वुत्तमपुण्णसंजुओ भयवं । एगंतपरहियरतो विसुद्धजोगो महासत्तो ।। जं बहुगुणं पयाणं तं नाऊणं तहेव दंसेइ । ते रक्खंतस्स ततो जहोचितं कहं भवे दोसो ? ।। 6 (स्त.प.१५८-९, पं.व.१२६७-८, पञ्चा.७/३६-३७) इत्थमावेदिता ।।४/२१ ।। માટે જ ઉદ્યત થયેલ જગદ્ગુરુ પરમાત્મા માટે તો વિશેષ પ્રકારે લાભદાયી જ હતું. તે જ રીતે યુગલિકના આચારો સમાપ્ત કરીને રાજા ઋષભે બતાવેલી વિવાહવ્યવસ્થા, શિલ્પ, લીપિ આદિનું પ્રતિપાદન તેમના માટે દોષરૂપ ન હતું. કારણ કે તેમનું ઉત્તમ પુણ્ય એ રીતે જ ભોગવાય છે. અધિકદોષનિવારણસ્વરૂપ લોકરક્ષણ એ તો પ્રભુનો ઉપકાર હતો. આ લોકરક્ષણ એ જ રાજા ઋષભ વગેરેની રાજ્યપ્રદાન આદિ પ્રવૃત્તિનું કારણ હતું. માટે તે દોષાવહ ન કહેવાય. (૪/૨૧) આ જ વાતના સમર્થન માટે ગ્રન્થકારશ્રી દૃષ્ટાન્ત જણાવે છે. ગાથાર્થ :- જેમ નાગ વગેરેથી રક્ષણ કરવા માટે ખાડામાંથી ખેંચવા છતાં દોષ નથી ગણાતો તેમ અહીં જાણવું. બાકી તો પરનયનું ઉદ્દભાવન કરવાથી દેશનામાં પણ તે જ દોષ લાગશે.(૪/૨૨) १. मुद्रितप्रतौ 'तदेवषां' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478