Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 425
________________ • धर्मस्य ब्रह्माण्डधारकत्वसमर्थनम् • द्वात्रिंशिका -४/१२ लाघवाद्धर्मस्यैव' धारकत्वौचित्यम् । तदिदमुच्यते निरालम्बा निराधारा विश्वाधारा' वसुन्धरा । गौरवाऽऽपातात् । एतेन संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये । दिग्गजानहिराजं च कमठं च न्यवेशयत् ।। तेषामपि च सर्वेषामाधारत्वेन सादरम् । अव्यक्तरूपां स्वां शक्तिं युयुजे च दयापरः ।। ← ( प.पु. ) इति पद्मपुराणकारिके अपि निरस्ते, विनिगमनाविरहेण ईश्वरीयज्ञानेच्छा-प्रयत्न-शक्तिषु धृतिकारणतापत्त्या गौरवात् । अत एव शेष- दिग्गजादिभिर्धृतं दिग्गजादीनामाऽऽधारत्वेनाऽधस्ताद् धारयन् कूर्मरूपेण ← (पा.६ / २ वृत्ति) इत्यादिकं पारमात्मिकोपनिषद्वृत्तिकृदुक्तमपि निरस्तम्, यतः शेषदिग्गजादीनामन्ततः स्वेन धारणीयत्वे किमन्तर्गडुभिः तैः ? कूर्मस्याऽपि परतः धारणीयत्वेऽनवस्था, स्वतो धारणीयत्वे चाऽस्तु क्षित्यादीनामपि तथात्वमिति दिक् । २५२ = किञ्च घट-शरादौ कस्माद् धारणावच्छिन्नेश्वरप्रयत्नादिविशेष्यता नाभ्युपगम्यते ? इत्यत्रापि नैयायिकेन किमपि वक्तुं न शक्यते । न चाऽदृष्टविशेषात्तत्रैव धारणावच्छिन्नविशेष्यता नान्यत्रेति वक्तव्यम्, ईश्वरेऽदृष्टाऽनभ्युपगमात्, अन्यथा नैयायिकस्याऽपसिद्धान्तापत्तेः । न च जीवानामदृष्टवशात् ब्रह्माण्डादावेव धारणावच्छिन्नविशेष्यता, नान्यत्रेति फलबलात्कल्प्यत इति वक्तव्यम्, एवं सति लाघवात् = कारणसङ्ख्यालाघवात्, धर्मस्यैव = जीवानां पुण्यस्यैव धारकत्वौचित्यं धृतिकारणत्वौचित्यम्, 'तद्धेतोरस्तु किं तेन ?' इति न्यायस्याप्यत्रैव पक्षपातित्वात् । किञ्च युष्मन्मतेऽपि सत्यलक्षणधर्मादेव पुष्पदन्तावुदयेते, द्यावा- पृथिव्यौ च विधृतौ तिष्ठतः, न त्वीशप्रयत्नवशात् । तदुक्तं ऋग्वेदे सा मा सत्यो क्तः परिपातु विश्वतो द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्निविशते यदेति विश्वाहापो विश्वाहोदेति सूर्यः ।। ← (ऋ. वे. १० / ३७/२) इति । तदुक्तं तत्रैवाग्रे सत्येनोत्तभिता भूमिः ← (ऋ. वे. १०/ ऋतेनाऽऽदित्यास्तिष्ठन्ति ← (ऋ. वे. १०/८५/२) इति च । अत्र सायणाचार्यः उपरि स्तम्भिता यथा अधो न पतेत् । यद्वा सत्येन अनृतप्रतियोगेन धर्मेण भूमिः उत्तभिता उद्धृता फलिता भवतीत्यर्थः ← (ऋग्वेदसायणभाष्य १०/८५/१ ) इति व्याचष्टे । तदुक्तं तैत्तिरीयारण्यकनारायणोपनिषदि, बृहन्नारायणोपनिषदि, महाभारते, नारदस्मृतौ च अपि सत्ये सर्वं प्रतिष्ठितम् ← (तै.आ.ना.१०/६३-१, बृ.ना. १७/१, म.भा.शांति. २६५/१०, ना.स्मृ. ४/२२३) इति, धर्मे सर्वं प्रतिष्ठितम् ← (तै. आ. ना. १०/६३-२ ) इति च । तदुक्तं महाभारते अपि सत्येन धार्यते लोकः ← (म.भा.शांति. १९०/१), सत्येन चाऽग्निर्दहति, स्वर्गः सत्ये प्रतिष्ठितः ← (म. भा. शांति. १९९/६८), → सर्वं सत्ये प्रतिष्ठितम् ← ( म.भा. शांति. १९९/६५ ) इति च । → सत्यमेवेश्वरो लोके, सत्ये धर्मः सदाश्रितः। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। ← ( वा. रा. ११०/१३) इति वाल्मीकिरामायणवचनमप्यत्रावधातव्यम् । ८५/१ ) इति, उत्तभिता = = यदि सत्यमेव ब्रह्म ← (श.ब्रा. २/१/४/१० ) इति सत्यमेव देवाः ← (श.प.ब्रा. १/१/ १/४ ) इति च शतपथब्राह्मणवचनमनुसृत्य देवपदस्य सत्यपरत्वमभिसन्धाय यदि ' द्यावा - पृथिव्यौ देवविधृतौ રહેલું છે. માટે લાધવસહકારથી ધર્મને જ બ્રહ્માંડ વગેરેનો ધારક માનવો વ્યાજબી છે. અમારી આ વાત શાસ્ત્રવિરુદ્ધ પણ નથી. કેમ કે યોગશાસ્ત્રમાં શ્રીહેમચન્દ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે ‘વિશ્વની १. 'धर्मस्येव' इत्यशुद्धो मुद्रितप्रतौ । २. 'धारो' इत्यशुद्धः पाठो हस्तादर्शे । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478